धृतराष्ट्रः-
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय
सञ्जयः-
शृणु राजन्न ते विद्या मम विद्या न हीयते
विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम्
विद्यया तात जानामि त्रियुगं मधुसूदनम्
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्
धृतराष्ट्रः-
गावल्गणेऽत्र का विद्या या ते नित्या जनार्दने
यया त्वमभिजानासि त्रियुगं मधुसूदनम्
सञ्जयः-
मायां न सेवे भद्रं ते न वृथा धर्ममाचरे
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम्
धृतराष्ट्रः-
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्
आप्तो नस्सञ्जयस्तात शरणं गच्छ केशवम्
दुर्योधनः-
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्
धृतराष्ट्रः-
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः
ईर्षुर्दुरात्मा मानी च श्रेयसां शासनातिगः
गान्धारी-
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन्
निहतो भीमसेनेन स्मर्तासि वचनं पितुः
व्यासः-
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे
यस्य ते सञ्जयो दूतो यस्त्वा श्रेयसि योक्ष्यते
जानात्येष हृषीकेशं पुराणं यच्च वै नवम्
शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात्
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः
सिता बहुविधैः पाशैर्ये न तुष्टास्स्वकैर्धनैः
यमस्य वशमायान्ति काममूढाः पुनः पुनः
अन्धनेत्रा यथैवान्धा नीयमानास्स्वकर्मभिः
एष एकायनः पन्था येन यान्ति मनीषिणः
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जति
धृतराष्ट्रः-
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम्
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम्
सञ्जयः-
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम्
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः
बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः
आगमाभिगतो योगी वशी तत्त्वे प्रसीदति
धृतराष्ट्रः-
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम्
सञ्जयः-
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम्
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते
मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम्
सर्वतत्त्वमयत्वाच्च मधुहा मधुसूदनः
कृषिर्भूवाचकश्शब्दो णश्च निर्वृतिवाचकः
विष्णुस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः
पुण्डरीकं परं धाम नित्यमक्षयमक्षरम्
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः
यतस्सत्वं न च्यवते यच्च सत्वान्न हीयते
तत्त्वतस्सात्वतस्तस्मादार्षभाद्वृषभेक्षणः
न जायते जनित्र्याऽयमजस्तस्मादनीकजित्
देवानां सुखशंसित्वाद्दमाद्दामोदरो विभुः
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः
अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः
नराणामयनाच्चापि ततो नारायणस्स्मृतः
पूरणात्सदनाच्चापि ततो वै पुरुषोत्तमः
असतश्च सतश्चैव सर्वस्य प्रभवोऽप्ययः
सर्वस्य च सदा ज्ञानात्सर्वज्ञं तं प्रचक्षते
सत्ये प्रतिष्ठितः कृष्णस्सत्यमत्र प्रतिष्ठितम्
सत्तासत्ते च गोविन्दस्तस्मात्सत्योपि नामतः
विष्णुर्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम्
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः
एवंविधो धर्मनित्यो भगवान्मधुसूदनः
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः