वैशम्पायनः-
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति
तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः
उत्थितेषु महाराज पृथिव्यां सर्वराजसु
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे
आशंसमानो विजयं तेषां पुत्रवशानुगः
आत्मनश्च परेषां च पाण्डवानां च निश्चयम्
धृतराष्ट्रः-
गावल्गणे ब्रूहि नस्सारफल्गु स्वसेनायं यावदिहास्ति किञ्चित्
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः
त्वमेतयोस्सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः
स मे पृष्टस्सञ्जय ब्रूहि सर्वं नियुध्यमानाः कतरेऽस्मिन्न सन्ति
सञ्जयः-
न त्वां ब्रूयां रहिते जातु किञ्चिदसूया हि त्वां प्रसहेत राजन्
आनयस्व पितरं महाव्रतं गान्धारीं च महिषीमाजमीढ
तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
तयोस्तु त्वां सन्निधौ तद्वदेयं कृत्स्नं मतं केशवपार्थयोर्यत्
वैशम्पायनः-
इत्युक्तेन च गान्धारी व्यासश्चात्राजगाम ह
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्
व्यासः-
सम्पृच्छते धृतराष्ट्राय सञ्जय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते
सर्वं यावद्वेत्थ तस्मिन्यथावद्याथातथ्यं वासुदेवेऽर्जुने च
सञ्जयः-
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ
कामादन्यत्र सम्भूतौ सर्वभावाय सम्मितौ
द्यामन्तरं समास्थय यथायुक्तं मनस्विनः
चक्रं तद्वासुदेवस्य मायया वर्तते विभो
सापह्नवं कौरवेषु पाण्डवानां सुसम्मतम्
सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम्
नरकं शम्बरं चैव कंसं चैद्यं च माधवः
जितवान्घोरसङ्काशान्क्रीडन्निव जनार्दनः
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति
सारासारबलं ज्ञातुं तत्समासेन मे शृणु
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः
भस्म कुर्याज्जगदिदं मनसैव जनार्दनः
न तु कृत्स्नं जगच्छक्तं किञ्चित्कर्तुं जनार्दने
यतस्सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः
स कृत्वा पाण्डवान्सत्रं लोकं सम्मोहयन्निव
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान्
कालचक्रं जगच्चक्रं युगचक्रं च केशवः
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम्
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च
ईष्टे हि भगवानेकस्सत्यमेतद्ब्रवीमि ते
ईशन्नपि महायोगी सर्वस्य जगतो हरिः
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः
तेन वञ्चयते लोकान्मायायोगेन केशवः
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः