धृतराष्ट्रः-
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि
पञ्चानामिव भूतानां महतां सुमहात्मनाम्
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्
परां गतिमसम्प्रेत्य न त्वं जेतुमिहार्हसि
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले
रणान्तकं तर्जयसे महावातमिव द्रुमः
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान्
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव
सात्यकिश्चापि दुर्धर्षस्सम्मतोऽन्धकवृष्णिषु
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः
यः पुनः प्रतिमानेन त्रील्ँलोकानतिरिच्यते
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान्
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः
अविषह्यं पृथिव्याऽपि तद्बलं यत्र केशवः
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्
वृद्धं शान्तनवं भीष्मं निरीक्षस्व पितामहम्
मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम्
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम्
द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम्
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम्
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम्
सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च
भगदत्तं च राजानं जलसन्धं च पार्थिवम्
एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः
उत्सृज्य गास्सुसन्त्रस्तं बलं ते समशीर्यत
यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्
अर्जुनस्तत्तथाकार्षीत्किं पुनस्सर्व एव ते
सभ्रातॄनभिजानीहि प्रीत्या च प्रतिपादय