दुर्योधनः-
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम्
वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः
समेन वयसा चैव प्रज्ञया च श्रुतेन च
अस्त्रेषु रथचर्यासु शीघ्रत्वे कौशले तथा
सर्वे स्म समजातीयास्सर्वे स्म समयोनयः
पितामह विजानीषे पार्थेषु विजयं कथम्
नाहं भवति न द्रोणे न कृपे न च बाह्लिके
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे
अहं वैकर्तनः कर्णो भ्राता दुश्शासनश्च मे
पाण्डवान्समरे पञ्च हनिष्यामश्शितैश्शरैः
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च
यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना
अनरित्रानिव जले बाहुभिर्मामका रणे
पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान्
तदा दर्पं विमोक्ष्यन्ति पाण्डवास्स च केशवः
सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुष्करम्
विस्रब्धास्तु भविष्यामः प्राप्ते काले गतज्वराः
वैशम्पायनः-
अथाब्रवीन्महाराजो धृतराष्ट्रस्सुदुर्मनाः
विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसन्निधौ
धृतराष्ट्रः-
मोहितो मृत्युपाशेन कालस्य वशमागतः
तात कर्णेन सहितः पुत्रो दुर्योधनो मम
विदुरः-
इह निश्श्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः
ब्राह्मणस्य विशेषेण दमो धर्मस्सनातनः
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते
दमो दानं तपो ज्ञानमधीतं चानुवर्तते
दमस्तेजो वर्धयति पवित्रं दम उत्तमम्
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत्
क्रव्याद्भ्य इव भूतानामदान्तेभ्यस्सदा भयम्
तेषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयम्भुवा
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्
तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम्
अकार्पण्यमसंरम्भस्सन्तोषश्श्रद्दधानता
एतानि यस्य राजेन्द्र स दान्तः पुरुषस्स्मृतः
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम्
मान ईर्ष्या च शोकश्च नैतद्दान्तो निषेवते
अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम्
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तकः
समुद्रकल्पः परुषस्स दान्तः परिकीर्तितः
सुवृत्तश्शीलसम्पन्नः प्रसन्नात्माऽत्मविद्बुधः
प्राप्येह लोके सम्मानं स्वर्गतिं प्रेत्य गच्छति
अभयं यस्य भूतेभ्यस्सर्वेषामभयं यतः
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः
समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति
कर्मणाऽऽचरितं पूर्वं सद्भिराचरितं च यत्
तदेवास्थाय मोदन्ते दान्ताश्शमपरायणाः
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः
कालाकाङ्क्षी चरल्ँलोके ब्रह्मभूयाय कल्पते
शकुनीनामिवाकाशे पदं नैवोपलभ्यते
एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते
उत्सृज्य वा गृहान्यस्तु मोक्षमेवाभिमन्यते
लोकास्तेजोमयास्तस्य कल्प्यन्ते शाश्वता दिवि
कश्चिच्छाकुनिको राजन्पूर्वमासीदिति श्रुतिः
शकुनीनां वधार्थाय पाशान्भूमावयोजयत्
तस्मिंस्तौ शकुनौ बद्धौ युगपत्सहचारिणौ
तावुपादाय तं पाशं जग्मतुः खचरावुभौ
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः
तथा तमनुधावन्तमृगयुं शकुनार्थिनम्
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम्
श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा
मुनिः-
विचित्रमिदमाश्चर्यं मृगयो प्रतिभाति मे
प्लवमानौ हि खचरौ पदातिरनुधावसि
शाकुनिकः-
पाशमेकमुभावेतौ सहितौ हरतो मम
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः
विदुरः-
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ
विगृह्य पाशं दुर्बुद्धी पृथिव्यां सन्निपेततुः
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ
उपसृत्य प्रमत्तौ तौ जग्राह मृगयुस्तदा
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम्
ते मृत्युवशमायान्ति शकुनाविव विग्रहात्
सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः
एतानि ज्ञातिकार्याणि न विरोधः कदाचन
ये स्म काले सुमनसस्सर्वे वृद्धानुपासते
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते
येऽर्थं सन्नतिमासाद्य दीना इव समासते
श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु
वयं किरातैस्सहिता गच्छामो गिरिमुत्तरम्
ब्राह्मणैर्देवकल्पैश्च विद्याविनयसाधनैः
कुञ्चभूतं गिरिं सर्वमभितो गन्धमादनम्
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम्
तत्रापश्याम वै सर्वे मधु स्फीतञ्च माक्षिकम्
मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम्
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम्
यत्प्राश्य पुरुषो मर्त्योऽप्यमरत्वं निगच्छति
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा
इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः
ततः किरातास्तं दृष्ट्वा प्रार्थयन्तो महीपते
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति
मधु पश्यति सम्मोहात्प्रपातं नानुपश्यति
दुर्योधनो योद्धुमनास्समरे सव्यसाचिना
न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम्
एकेन रथमास्थाय पृथिवी येन निर्जिता
भीष्मद्रोणप्रभृतयस्सन्त्रस्तास्साधुयायिनः
विराटनगरे भग्नाः किं वा तेऽत्र निदर्शनम्
प्रतीक्षमाणो यो वीरः क्षमते निकृतिं तव
द्रुपदो मत्स्यराजश्च सङ्क्रुद्धश्च धनञ्जयः
न शेषयेयुस्समरे वायुयुक्ता इवाग्नयः
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः