वैशम्पायनः-
तथैव पृच्छन्तमतीव पार्थं वैचित्रवीर्यं तमचिन्तयित्वा
उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम्
कर्णः-
मिथ्या प्रतिज्ञाय मया यदस्त्रं रामात्कृतं ब्रह्मधृतं पुरस्तात्
विज्ञाय तेनास्मि तदैवमुक्तस्ते नान्तकाले प्रतिभास्यतीति
महापराधे ह्यपि यन्न तेन महर्षिणाऽहं गुरुणा च शप्तः
शक्तः प्रदग्धुं ह्यतितिग्मतेजास्ससागरामप्यवनिं महर्षिः
प्रसादितं ह्यस्य मया मनोऽभूच्छुश्रूषया स्वेन च पौरुषेण
तदस्ति चास्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः
निमेषमात्रात्तमृषिप्रसादमवाप्य पाञ्चालकरूशमत्स्यान्
निहत्य पार्थान्सह पुत्रपौत्रैर्लोकानहं शत्रुजितान्प्रपत्स्ये
पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः
ऋषिप्रसादेन बलेन गत्वा पार्थान्हनिष्यामि ममैष भारः
वैशम्पायनः-
एवं ब्रुवन्तं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे
न कर्ण जानासि यथा प्रधाने हते हतास्स्युर्धृतराष्ट्रपुत्राः
यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनञ्जयेन
श्रुत्वैव तत्कर्म नियन्तुमात्मा युक्तस्त्वया वै सहबान्धवेन
यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः
भस्मीकृतां तां समरे विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन
यस्ते शरस्सर्पमुखो विभाति सदाऽग्र्यमाल्यैर्महितः प्रयत्नात्
स पाण्डुपुत्राभिहतश्शरौघैस्सह त्वया यास्यति कर्ण नाशम्
बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः
यस्त्वादृशानां च गरीयसां च हन्ता रिपूणां तुमुले प्रगाढे
कर्णः-
असंशयं वृष्णिपतिर्यथोक्तस्तथा च भूयांश्च ततो महात्मा
अहं यदुक्तः परुषं तु किञ्चित्पितामहस्तस्य फलं शृणोतु
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये पितामहो द्रक्ष्यति मां सभायाम्
त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः
वैशम्पायनः-
इत्येवमुक्त्वा स महाधनुष्मान्हित्वा सभां स्वं भवनं जगाम
भीष्मस्तु दुर्योधनमेव राजन्मध्ये कुरूणां प्रहसन्नुवाच
भीष्मः-
सत्यप्रतिज्ञः किल सूतपुत्रस्तथा स भारं विषहेत कस्मात्
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा लोकक्षयं पश्यतु भीमसेनात्
आवन्त्यकालिङ्गजयद्रथेषु चेदिध्वजे तिष्ठति बाह्लिके च
अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतशश्च योधान्
यदैव रामे भगवत्यनिन्द्ये ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम्
तदैव धर्मश्च तपश्च नष्टं वैकर्तनस्याधमपूरुषस्य
वैशम्पायनः-
तथोक्तवाक्ये नृपतीन्द्र भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे
वैचित्रवीर्यस्य सुतोऽल्पबुद्धिर्दुर्योधनश्शान्तनवं बभाषे