वैशम्पायनः-
सञ्जयस्य वचश्श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः
ततस्सङ्ख्यातुमारेभे तद्वचो गुणदोषतः
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः
यथावन्मतितत्त्वेन जयकामस्सुतान्प्रति
बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान्
यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः
पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान्
शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः
धृतराष्ट्रः-
देवमानुषयोश्शक्त्या तेजसा चैव पाण्डवान्
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत्
दुर्योधनेयं चिन्ता मे शश्वन्न ह्युपशाम्यति
ईदृशेऽभिनिविष्टस्य पृथिवीक्षयकारके
अधर्म्ये वाऽयशस्ये वा कार्ये महति दारुणे
पाण्डवैर्विग्रहस्तात सर्वथा मे न रोचते
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम्
अग्निस्साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन्
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे
जातिगृद्ध्याऽभिपन्नाश्च पाण्डवानामनेकशः
धर्मादयस्समेष्यन्ति समाहूता दिवौकसः
भीष्मद्रोणकृपादीनां भयादशनिसन्निभम्
रिरक्षिषन्तस्संरम्भं गमिष्यन्तीति मे मतिः
तद्देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम्
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम्
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी
वानरश्च ध्वजे दिव्यो निस्सङ्गो धूमवद्गतिः
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ
महामेघनिभश्चापि निर्घोषश्श्रूयते जनैः
महाशनिसमश्शब्दश्शात्रवाणां भयङ्करः
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति
देवानामपि जेतारं यं विदुः पार्थिवा रणे
शतानि पञ्च चैवेषून्यो गृह्णन्नेव दृश्यते
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन्
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः
अशक्यं रथशार्दूलं पराजेतुमरिन्दमम्
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम्
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम्
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महामृधे
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत
अनिद्रो निस्सुखश्चास्मि कुरूणां शमचिन्तया
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः
अस्य चेत्कलहस्यान्तश्शमादन्यो न विद्यते
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्छक्तिमत्तरान्
वैशम्पायनः-
पितुरेतद्वचश्श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्
दुर्योधनः-
अशक्या देवसचिवाः पार्थास्स्युरिति यद्भवान्
मन्यते तद्भयं व्येतु भवतो राजसत्तम
अकामद्वेषसंयोगाल्लोभद्रोहाच्च भारत
उपेक्षया च भावानां देवा देवत्वमाप्नुवन्
इति द्वैपायनो व्यासो नारदश्च महातपाः
जामदग्न्यश्च रामो नः कथामकथयत्पुरा
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन
कामात्क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ
यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कथञ्चन
देवाश्चोपेक्षका ह्येते शश्वद्भावेषु भारत
अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते
देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति
मयाऽभिमन्त्रतश्शश्वज्जातवेदाः प्रशाम्यति
दिधक्षुस्सकलाल्ँलोकान्परिक्षिप्य समन्ततः
यद्वा परमकं तेजो येन युक्ता दिवौकसः
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत
विदीर्यमाणां वसुधां गिरीणां शिखराणि च
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात्
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च
विनाशाय समुत्पन्नं भयं घोरं महास्वनम्
अश्मवर्षं च वायुं च शमयामीह नित्यशः
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया
देवासुराणां भावानामहमेकः प्रवर्तिता
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित्
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये
भयानि विषये राजन्व्याघ्रादिभ्यो न सन्ति मे
मन्त्रगुप्तानि भूतानि न हिंसन्ति भयङ्कराः
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्
सस्यानां सर्वजन्तूनामीतयश्च न सन्ति मे
अश्विनावथ वाय्वग्निमरुद्भिस्सह वृत्रहा
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम्
यदि ह्येते समर्थास्स्युर्मद्द्विषस्त्रातुमञ्जसा
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम्
तद्भवेद्विधिपूर्वं मे मित्रेष्वरिषु चोभयोः
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप
नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम्
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन
असदाचरितं ह्येतद्यदात्मानं प्रशंसति
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैस्सह
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया
सरितस्सागरं प्राप्य यथा नश्यन्ति सर्वशः
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः
परा बुद्धिः परं तेजो वीर्यं च परमं मम
परा विद्या परो योगो मम तेभ्यो विशाम्पते
पितामहश्च द्रोणश्च कृपश्शल्यश्शलस्तथा
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते
वैशम्पायनः-
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत
ज्ञातुं युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः