धृतराष्ट्रः-
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः
तेन संयुगमेष्यन्ति मन्दा विलपतो मम
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम
एतद्धि कुरवस्सर्वे मन्यन्ते धर्मसंहितम्
यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम्
जात एष तवाभावस्त्वं तु मोहान्न बुद्ध्यसे
न ह्यहं योद्धुमिच्छामि नैतदिच्छति बाह्लिकः
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः
न सोमदत्तो न कृपो न शलो युद्धमिच्छति
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा
तत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः
येषु सम्प्रति तिष्ठेयुः कुरवः पीडिताः परैः
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम्
न त्वं करोषि कामेन कर्णः कारयिता तव
दुश्शासनश्च पापात्मा शकुनिश्चापि सौबलः
दुर्योधनः-
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये
न भीष्मे न काम्भोजे न कृपे न च बाह्लिके
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः
अन्येषु वा तावकेषु भारं कृत्वा समाह्वयम्
अहं च तात कर्णश्च रणयज्ञं वितत्य वै
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ
रथो वेदिस्स्रुवः खड्गो गदा स्रुक् कवचं सदा
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे
विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ
अहं च तात कर्णश्च भ्राता दुश्शासनश्च मे
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम्
मां हत्वा पाण्डुपुत्रा वा भोक्तारः पृथिवीमिमाम्
त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव
न जातु पाण्डवैस्सार्धं वसेयमहमच्युत
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति
धृतराष्ट्रः-
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम्
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः
वरान्वरान्हनिष्यन्ति समेतान्युधि पाण्डवाः
प्रतीपमिव मे भाति युयुधानेन भारती
व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना
सम्पूर्णं पूरयन्भूयो बलं पार्थस्य माधवः
शैनेयस्समरे स्थाता बीजवत्प्रवपञ्छरान्
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयाः
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्
विशीर्णदन्तान्विक्रुष्टान्भिन्नकुम्भान्सशोणितान्
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान्
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे
निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम्
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनं मम
महद्वो भयमागामि न चेच्छामीह पाण्डवैः
गदया भीमसेनेन हताश्शममुपैष्यथ
महावनमिव च्छिन्नं यदा द्रक्ष्यसि पातितम्
बलं कुरूणां भीमेन तदा स्मर्तासि मे वचः
वैशम्पायनः-
एतावदुक्त्वा राजा तु सर्वांस्तान्पृथिवीपतीन्
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम्
धृतराष्ट्रः-
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम्
यदर्जुन उवाच त्वां परं कौतूहलं हि मे
सञ्जयः-
वासुदेववचश्श्रुत्वा कुन्तीपुत्रो धनञ्जयः
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः
अर्जुनः-
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय
द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम्
द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम्
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम्
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम्
सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च
भगदत्तं च राजानं जलसन्धं च पौरवम्
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम्
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रेण सूत
यथान्यायं कुशलं वन्दनं च समागता मद्वचनेन वाच्याः
इदं ब्रूयास्सञ्जय राजमध्ये सुर्योधनं पापकृतां प्रधानम्
अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम्
सर्वं ममैतद्वचनं समग्रं सहामात्यं सञ्जय श्रावयेथाः
सञ्जयः-
एवं परिष्वज्य धनञ्जयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम्
प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः
अर्जुनः-
यथाश्रुतं ते वदतो महात्मनो यदुप्रवीरस्य वचस्समाहितम्
तथैव वाच्यं भवतापि मद्वचस्समागतेषु क्षितिपेषु सर्वशः
शराग्निधूमे रथनेमिनादिते धनुस्स्रुवेणास्त्रबलापहारिणा
यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः
न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यांशमभीप्सितं स्वकम्
नयामि वस्साश्वपदातिकुञ्जरान्दिशं पितॄणामशिवां शितैश्शरैः
सञ्जयः-
ततोऽहमामन्त्र्य तदा धनञ्जयं चतुर्भुजं चैव नमस्य सत्वरम्
जवेन सम्प्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत्