दुर्योधनः-
अक्षौहिणीस्सप्त लब्ध्वा राजभिस्सह सञ्जय
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः
सञ्जयः-
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः
रथं तु दिव्यं कौन्तेयस्सर्वा विभ्राजयन्दिशः
मन्त्रं जिज्ञासमानस्सन्बीभत्सुस्समयोजयत्
तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा
समन्तात्समभिध्यायन्हृष्यमाणोऽभ्यभाषत
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय
बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत
दुर्योधनः-
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान्
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः
सञ्जयः-
भौमनस्सह शक्रेण बहुचित्रं विशाम्पते
रूपाणि कल्पयामास त्वष्टा धाता विशाम्पते
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया
महाधनानि दिव्यानि महान्ति च लघूनि च
भीमसेनानुरोधाय हनूमान्मारुतात्मजः
आत्मप्रतिकृतिं तस्य ध्वज आरोपयिष्यति
सर्वा दिशो योजनमात्रमन्तरं स तिर्यगूर्ध्वं च रुरोध वै ध्वजः
न संसज्जेत्तरुभिस्संवृतोऽपि तथा हि माया विहिता भौवनेन
यथाऽऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत्
तथा ध्वजो विहितो भौवनेन बह्वाकारं दृश्यते रूपमस्य
यथाऽग्निधूमो दिवमेति रुद्ध्वा वर्णान्बिभ्रत्तैजसांश्चित्ररूपान्
तथा ध्वजो विहितो भौवनेन न चेद्भारो भविता नोत वाधा
श्वेतास्तस्मिन्वातवेगास्सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः
भुव्यन्तरिक्षे दिवि वा नरेन्द्र येषां गतिर्हीयते नात्र सर्वा
शतं यत्तत्पूर्यते नित्यकालं हतंहतं दत्तवरं पुरस्तात्
तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः
ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेगा बभूवुः
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन
भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्तास्सहदेवं वहन्ति
माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः
समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रवधे यथेन्द्रम्
तुल्याश्चैभिर्वयसा विक्रमेण महाजवाश्चित्ररूपास्सदश्वाः
सौभद्रादीन्द्रौपदेयान्कुमारान्वहन्त्यश्वा देवदत्ता बृहन्तः