सञ्जयः-
एवमेतन्महाराज यथा वदसि भारत
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते
इदं तु नाभिजानामि तव धीरस्य धीमतः
यत्पुत्रवशमागच्छेस्तत्त्वज्ञस्सव्यसाचिनः
नैष कालो महाराज तव शश्वत्कृतागसः
त्वया ह्येवादितः पार्था निकृता भरतर्षभ
स्वीकृतास्तैर्जनपदाः कुरवस्ते सजाङ्गलाः
कथं वीरैर्जितां भूमिमखिलां प्रतिपद्यथाः
पिता श्रेष्ठस्सुहृद्यश्च सम्यक्प्रणिहितात्मवान्
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्
द्यूतकाले महाराज स्मयसे स्म कुमारवत्
परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः
कथं वीरार्जितामुर्वीमखिलां प्रतिपद्यथाः
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता
मयेदं कृतमित्येव मन्यसे राजसत्तम
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्
पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः
प्रवर्षतश्शरव्रातानर्जुनस्य शितान्बहून्
अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः
अस्यतां फल्गुनश्श्रेष्ठो गाण्डीवं धनुषां वरम्
केशवस्सर्वभूतानामायुधानां सुदर्शनम्
वानरो रोचमानश्च केतुः केतुमतां वरः
एवमेतानि सरथो वहञ्छ्वेतहयो रणे
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम्
तस्याद्य वसुधा राजन्निखिला भरतर्षभ
यस्य भीमार्जुनौ योधौ स राजा राजसत्तमः
तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम्
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः
न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो
तव पुत्रा महाराज राजानश्चानुसारिणः
मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः
साल्वेयाश्शूरसेनाश्च सर्वे त्वामवजानते
पार्थं ह्येते गतास्सर्वे वीर्यज्ञास्तस्य धीमतः
पुत्रस्य तव दोषेण नानुशोचितुमर्हसि
भक्ता अपि विरुध्यन्ते तव पुत्रैस्सदैव ते
अनर्हानेव तु वने धर्मयुक्तान्विकर्मणा
योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनाऽपि च
सर्वोपायैर्नियन्तव्यस्सानुगः पापपूरुषः
तव पुत्रो महाराज नानुशोचितुमर्हसि
अपरोक्षं महाराज साक्षाच्चैनं ब्रवीम्यहम्
द्यूतकाले मया प्रोक्तं विदुरेण च धीमता
यदिदं ते विलपितं पाण्डवान्प्रति भारत
अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम्