धृतराष्ट्रः-
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत
श्रुत्वैतद्बहुलास्सेनाः प्रीत्यर्थं नस्समागताः
किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः
के वाऽस्मद्भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो मुखम्
के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्
सञ्जयः-
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैस्सह
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्
नभस्सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम्
आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम्
पाञ्चालाः केकया मत्स्याः प्रतिनन्दति पाण्डवम्
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः
क्रीडन्त्योभिसमायान्ति पार्थं सन्नद्धमीक्षितुम्
धृतराष्ट्रः-
सञ्जयाचक्ष्व येनास्मान्पाण्डवा अभ्ययुञ्जत
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च
वैशम्पायनः-
गावल्गणिस्तु तत्पृष्टस्सभायां कुरुसंसदि
निश्श्वस्य सुभृशं दीर्घं मुहुस्सञ्चिन्तयन्निव
तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत्
तदाचचक्षे विदुरस्सभायां राजसंसदि
विदुरः-
सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि
वाचं न सृजते काञ्चिद्धीनप्रज्ञोविचेतनः
धृतराष्ट्रः-
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान्
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः
वैशम्पायनः-
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्
धृतराष्ट्रं महाराज सभायां कुरुसंसदि
सञ्जयः-
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान्
मत्स्यराजगृहावासनिरोधेनावकर्शितान्
शृणु र्यैर्हि महाराज पाण्डवा अभ्ययुञ्जत
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत
यो नैव रोषान्न भयान्न लोभान्नार्थकारणात्
न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कदाचन
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन
यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
यस्य वीर्येण सहसा चत्वारो युधि मानवाः
निस्सृता जतुगेहाद्वै हिडिम्बात्पुरुषादकात्
यश्चैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः
याज्ञसेनीमथो यत्र सिन्धुराजोपकृष्टवान्
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते
दह्यतो मोचयामास कुन्तीपुत्रो वृकोदरः
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः
प्रविश्य विषमं घोरं पर्वतं गन्धमादनम्
यस्य नागायुतैर्वीर्यं भुजयोस्सारमर्पितम्
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम्
यस्स साक्षान्महादेवं गिरिशं शूलपाणिनम्
तोषयामास युद्धेन देवदेवमुमापतिम्
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्
तेन वस्सहदेवेन पाण्डवा अभ्ययुञ्जत
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च
तेन वस्सहदेवेन पाण्डवा अभ्ययुञ्जत
यवीयसा नृवीरेण माद्रीनन्दिकरेण च
तपश्चचार या घोरं काशिकन्या पुरा सती
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान्
स्त्रीपुंसोः पुरुषव्याघ्र यस्स वेद गुणागुणान्
यः कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत
यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
आमुक्तकवचाश्शूरास्तैश्च वस्तेऽभ्ययुञ्जत
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः
य आसीच्छरणं काले पाण्डवानां महात्मनाम्
रणे तेन विराटेन पाणडवा अभ्ययुञ्जत
यस्तु काशिपती राजा वाराणस्यां महारथः
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत
शिशुभिर्दुर्जयैस्सङ्ख्ये द्रौपदेयैर्महात्मभिः
आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत
यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः
दुस्सहस्समरे क्रुद्धश्शैशुपालिर्महारथः
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत
अक्षौहिण्या परिवृतः पाण्डवान्योऽभिसंवृतः
यस्संश्रयः पाण्डवानां देवानामिव वासवः
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत
जारासन्धिस्सहदेवो जयत्सेनश्च तावुभौ
युद्धेऽप्रतिरथौ वीरौ पाण्डवार्थे व्यवस्थितौ
द्रुपदश्च महातेजा बलेन महता वृतः
त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः
शतशो यानुपाश्रित्य धर्मराजो व्यवस्थितः