धृतराष्ट्रः-
पृच्छामि त्वां सञ्जय राजमध्ये किमब्रवीद्वाक्यमदीनसत्वः
धनञ्जयस्तात युधां प्रेणता दुरात्मनां जीवितच्छिन्महात्मा
सञ्जयः-
दुर्योधनो वाचमिमां शृणोतु यदब्रवीदर्जुनो योत्स्यमानः
युधिष्ठिरस्यानुमते महात्मा धनञ्जयश्शृण्वतः केशवस्य
अवित्रस्तो बाहुवीर्यं विजानन्नुपह्वरे वासुदेवस्य वीरः
अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्
संशृण्वतस्तस्य दुर्भाषिणो वै दुरात्मनस्सूतपुत्रस्य सूत
यो योद्धुमाशंसते मां सदैव मन्दप्रज्ञः कालपक्वोऽतिमूढः
ये वै राजानः पाण्डवायोधनाय समानीताश्शृण्वतां चापि तेषाम्
यथा समग्रं वचनं यथोक्तं सहामात्यं श्रावयेथा नृपं तत्
यथा गिरं देवराजस्य देवाश्शुश्रूषन्ते वज्रहस्तस्य सर्वे
तथाऽशृण्वन्पाण्डवास्सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम्
इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः
अर्जुनः-
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्याजमीढस्य राज्ञः
अस्ति नूनं कर्म कृतं पुरस्तादनिर्विष्टं पापकं धार्तराष्ट्रैः
येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव
शैनेयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च
युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च
तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थस्सकलः पाण्डवानाम्
मा तत्कार्षीः पाण्डवस्तस्य हेतोरुपैहि युद्धं यदि मन्यसे त्वम्
यां तां वने दुःखशय्यामवात्सीत्प्रव्राजितः पाण्डवो धर्मचारी
आप्नोतु तां दुःखतरामनाथामन्त्यां शय्यां धार्तराष्ट्रः परासुः
ह्रिया ज्ञानेन तपसा दमेन शौर्येणर्द्ध्या धर्मगुप्त्या धनेन
अन्यायवृत्तिः कुरु पाण्डवेयानध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा
मायोपधं प्रनिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन
सत्यं ब्रुवन्प्रतिपन्नो नृपो नस्तितिक्षमाणः क्लिश्यमानोऽतिवेलम्
यदा ज्येष्ठः पाण्डवस्संशितात्मा क्रोधं यच्छन्वर्षपूगान्सुघोरम्
अवस्रष्टा कुरुषूद्वृत्तचेतास्तदा युद्धं धार्तराष्ट्रानतप्स्यत्
कृष्णवर्त्मेव ज्वलितस्समिद्धो यथा दहेत्कक्षमग्निर्निदाघे
एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य
यदा द्रष्टा भीमसेनं रथस्यं गदाहस्तं क्रोधविषं वमन्तम्
अमर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रानतप्स्यत्
सेनाग्रगं दंशितं भीमसेनं लक्षण्यवन्तं वीरहणं परेषाम्
घ्नन्तं चमूमन्तकसन्निकाशं तदा स्मर्ता वचनस्यातिमानी
यदा द्रष्टा भीमसेनेन नागान्निपातितान्गिरिकूटप्रकाशान्
कुम्भैरिवासृग्वमतो भिन्नकुम्भांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
महासिंहो गा इव सम्प्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य
यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
महाभये वीतभयः कृतास्त्रस्समागमे शत्रुबलावमर्दी
सकृद्रथेन प्रतियन्रथौघान्पदातिसङ्घान्गदयाभिनिघ्नन्
सैन्याननेकांस्तरसा विमृद्गन्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम्
छिन्दन्वनं परशुनेव शूरस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य
पक्वं सस्यं वैद्युतेनेव दग्धं पराजितं विपुलं स्वं बलौघम्
हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽनष्टयोधम्
शस्त्रार्चिषा भिमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
उपासङ्गादुद्धरन्दक्षिणेन वरं शरं नकुलश्चित्रयोधी
यदा रथाग्र्यो रथिनः प्रभेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत
आशीविषः क्रुद्ध इवाचरेद्यदा तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धार्तराष्ट्रेण सूत
छिन्ना भिन्नास्सहसैन्या द्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः
शिशून्मृधे तानशिशुप्रकाशान्यदा द्रष्टा कौरवः पञ्च शूरान्
त्यक्त्वा प्राणान्कौरवानाद्रवन्तस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यथा शक्रो दानवनां जयार्थं सुवर्णतारं रथमुत्तमाश्वैः
दान्तैर्युक्तं सहदेवोऽधिरूढश्शिरांसि राज्ञां छेत्स्यते मार्गणौघैः
महाभये सम्प्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम्
सर्वा दिशस्सम्पतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ह्रीनिषेधो निपुणस्सत्यवादी महाबलस्सर्वधर्मोपपन्नः
गान्धारिमार्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्सपत्नान्
यदा द्रष्टा द्रौपदेयान्महेषून्शूरान्कृतास्त्रान्रथयुद्धकोविदान्
आशीविषान्घोरविषानिवागतांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदाभिमन्युः परवीरहन्ता शरैः परान्मेघ इवाभिवर्षन्
विगाहिता कृष्णसमः कृतास्त्रस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवोत्पतन्तम्
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
प्रभद्रकाश्शीघ्रतरा युवानो विशारदास्सिंहसमानवीर्याः
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
वृद्धौ विराटद्रुपदौ महारथौ पृथक्चमूभ्यामभिवर्तमानौ
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा कृतास्त्रो द्रुपदः प्रचिन्वन्शिरांसि यूनां समरे रथस्थः
क्रुद्धश्शरैश्छेत्स्यति चापमुक्तैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा विराटः परवीरघाती रणाजिरे शत्रुचमूं प्रवेष्टा
मात्स्यैस्सार्धमनृशंसरूपैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ज्येष्ठं मात्स्यमनृसंसार्यरूपं विराटपुत्रं रथिनं पुरस्तात्
यदा द्रष्टा दंशितं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
रणे हते कौरवाणां प्रवीरे शिखण्डिना सत्तमे शन्तनूजे
न जातु नश्शत्रवो धारयेयुरसंशयं सत्यमेतद्ब्रवीमि
यदा शिखण्डी रथिनः प्रचिन्वन्भीष्मं रथेनाभियाता प्रमाथी
दिव्यैर्हयैरवमृद्नन् रथौघांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा सृञ्जयानामनीके धृष्टद्नुम्नं प्रमुखे रोचमानम्
अस्त्रं यस्मै गुह्यमुवाच धीमान्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः
यदा स सेनापतिरप्रमेयः परामृद्नन्निषुभिर्धार्तराष्ट्रान्
द्रोणं रणे शत्रुसहोभियाता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ह्रीमान्मनीषी बलवान्मनस्वी लक्षण्यवान्सोमकानां प्रबर्हः
न जातु तं शत्रवोऽन्ये सहेरन्येषां स स्यादग्रणीर्वृष्णिसिंहः
ब्रूयाच्च मां प्रवृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम्
शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम्
महारथो दीर्घबाहुः प्रमाथी युद्धेऽद्वितीयः परमास्त्रवेदी
शिनेर्नप्ता तालमात्रायुधोऽयं महारथो वीतभयः कृतास्त्रः
यदा शिनीनामधिपो मयोक्तश्शरैः परान्मेघ इव प्रवर्षन्
प्रच्छादयिष्यत्यरिहा योधमुख्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा धृतिं कुरुते योत्स्यमानस्स दीर्घबाहुर्दृढधन्वा महात्मा
सिंहस्येव गन्धमाघ्राय गावस्सञ्चेष्टन्ते शत्रवोऽस्माद्यथाऽग्नेः
स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्
अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितस्सूर्य इवाभिभाति
चित्रस्सूक्ष्मस्सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य योऽभूत्
यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैस्सात्यकिस्तैरुपेतः
हिरण्मयं श्वेतहयैश्चतुर्भिर्यदा युक्तं स्यन्दनं माधवस्य
द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्रस्तदा तप्स्यत्यकृतात्मा स मन्दः
यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम्
दृष्ट्वा ममाप्यास्थितं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः
यदा मौर्व्यास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम्
विधूयमानस्य महारणे मया स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः
तदा मूढो धृतराष्ट्रस्य पुत्रस्तप्ता युद्धे दुर्मतिर्दुस्सहायः
दृष्ट्वा सैन्यं बाणवर्षान्धकारे प्रभज्यन्तं गोकुलवद्रणाग्रे
बलाहकादुच्चरतस्सुभीमान्विद्युत्स्फुलिङ्गानिव घोररूपान्
सहस्रघ्नान्द्विषतां सङ्गरेषु अस्थिच्छिदो मर्मभिदस्सुपुङ्खान्
यदा द्रष्टा ज्यामुखाद्बाणसङ्घान्गाण्डीवमुक्तानापततश्शिताग्रान्
हयान्गजान्वर्मिणश्चाददानांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा मन्दः परबाणान्विमुक्तान्ममेषुभिः क्रियमाणान्प्रतीपम्
तिर्यग्विध्य च्छिद्यमानान्पृषत्कैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा विपाठा भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात्
प्रचेतार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा पततस्स्यन्दनेभ्यो महागजेभ्योऽश्वगतान्सुयोधनान्
शरैर्हतान्रतिनश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
असम्प्राप्तानस्त्रपथं परस्य यदा द्रष्टा नश्यतो धार्तराष्ट्रान्
अकुर्वतः कर्म युद्धे समन्तात्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
पदातिसङ्घान्रथसङ्घान्समन्ताद्व्यात्ताननः काल इवाततेषुः
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैश्शत्रूंस्तदा तप्स्यति मन्दबुद्धिः
सर्वा दिशस्सम्पतता रथेन रथान्ध्वस्तान्गाण्डिवेनापकृत्तम्
यदा द्रष्टा स्वबलं सम्प्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः
कान्दिग्भूतं छिन्नगात्रं विसञ्ज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम्
हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम्
आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसङ्घम्
प्रजापतेः कर्म यथार्थनिष्ठितं तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः
यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च
तूणावक्षय्यौ देवदत्तं च मां च द्रष्टा युद्धे धार्तराष्ट्रस्समेतान्
उद्वर्तयन्दस्युसङ्घान्समेतान्प्रवर्तयिष्यन्युगपद्युगान्तम्
यदा धक्ष्याम्यग्निवत्कौरवेयांस्तदा तप्ता धृतराष्ट्रस्सपुत्रः
सभ्राता वै सहसैन्यस्सभृत्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः
दर्पस्यान्ते निहतो वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः
पूर्वाह्णे मां कृतजप्यं कदाचिद्विप्रः प्रोवाचोदकान्ते मनोज्ञम्
कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं ते शत्रुभिः सव्यसाचिन्
इन्द्रो वा ते हरिमान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्
सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः
वव्रे चाहं वज्रहस्तान्महेन्द्रादस्मिन्युद्धे वासुदेवं सहायम्
स मे लब्धो दस्युवधाय कृष्णो मन्येऽप्येतद्विहितं दैवतैर्मे
अयुद्ध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत्
ध्रुवं सर्वान्सोऽभ्यतीयादमित्रान्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता
स बाहुभ्यां सागरमुत्तितीर्षेन्महोदधिं सलिलस्याप्रमेयम्
तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत्
गिरिं य इच्छेत्तु तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम्
तस्यैव पाणिस्सनखो विशीर्येन्न चापि किञ्चित्स गिरेस्तु कुर्यात्
अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत
हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत्
यो रुक्मिणीमेकरथेन भोजानुच्छिद्य राज्ञस्समरे प्रसह्य
उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा
अयं गान्धारांस्तरसा सम्प्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान्
बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनीयं देवतानां ललामम्
अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तकूले ममर्द
अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी सम्बभूव
अयं स्म युद्धे मन्यतेऽन्यैरजेयं तमेकलव्यं नाम निषादराजम्
वेगेनैव शैलमभिहत्य जम्भश्शेते स कृष्णेन हतः परासुः
तथोग्रसेनस्य सुतं सुदुष्टं वृष्ण्यन्धकानां मध्यगतं सभास्थम्
अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम्
अयं सौभं योधयामास खस्थं विभीषणं मायया साल्वराजम्
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः
प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामधृष्यम्
महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे
न तं देवास्सह शक्रेण शेकुस्समागता युधि मृत्योरभीताः
दृष्ट्वा च तं विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम्
जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम्
स तत्कर्म प्रतिशुश्राव दुष्करमैश्वर्यवान्सिद्धिषु वासुदेवः
निर्मोचने षट्सहस्राणि हत्वा सञ्च्छिद्य पाशान्सहसा क्षुरान्तान्
मुरं हत्वा विनिहत्यौघरक्षो निर्मोचनं चापि जगाम वीरः
तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः
शेते स कृष्णेन हतः परासुर्वातेनेव मथितः कर्णिकारः
आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुरं च
श्रिया वृतो यशसा चैव विद्वान्प्रत्याजगामाप्रतिमप्रभावः
अस्मै वराण्यददुस्तत्र देवा दृष्ट्वा भीमं कर्म कृतं रणे तत्
श्रमश्च ते युध्यमानस्य न स्यादाकाशे चाप्यसु च ते क्रमस्स्यात्
शस्त्राणि गात्रे न च ते क्रमेरन्नित्येव कृष्णश्च ततः कृतार्थः
एवंरूपे वासुदेवेऽप्रमेये महाबले गुणसम्पत्सदैव
तमसह्यं विष्णुमनन्तवीर्यमाशंसते धार्तराष्ट्रो विजेतुम्
सदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान्समीक्ष्य
पर्यागतं मम कृष्णस्य चैवं यो मन्यते कलहं सम्प्रसह्य
शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा
नमस्कृत्वा शान्तनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव
शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः
धर्मेणैव निधनं तस्य मन्ये यो योत्स्यते पाण्डवैर्धर्मचारी
मिथ्याग्लहे निर्जिता वै नृशंसैस्संवत्सरान्वै द्वादश राजपुत्राः
वासः कृत्स्नो विहितश्चाप्यरण्ये दीर्घं कालं चैकमज्ञातवर्षम्
तेषां कस्माज्जीवतां पाण्डवानां नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः
ते चेदस्मान्युध्यमानाञ्जयेयुर्देवैर्महेन्द्रप्रमुखैस्सहायैः
धर्मादधर्मश्चरितो गरीयांस्ततो ध्रुवं नास्ति कृतं च साधु
न चेदिदं पौरुषं कर्मबद्धं न चेदस्मान्मन्यतेऽसौ विशिष्टान्
आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम्
न चेदिदं कर्म नरेन्द्र वन्ध्यं न चेद्भवेत्सुकृतं निष्फलं वा
इदं च तच्चापि समीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः
प्रत्यक्षं वः कुरवो यद्ब्रवीमि युद्ध्यमाना धार्तराष्ट्रा न सन्ति
अन्यत्र युद्धात्कुरवो यदि स्युर्न युद्धे वै शेष इहास्ति कश्चित्
हत्वा त्वहं धार्तराष्ट्रान्सकर्णान्राज्यं कुरूणामपि जेता समग्रम्
यद्वः कार्यं तत्कुरुध्वं यथास्वमिष्टान्दारानात्मभोगान्भजध्वम्
अप्येवं नो ब्राह्मणास्सन्ति वृद्धा बहुश्रुताश्शीलवन्तः कुलीनाः
सांवत्सरा ज्योतिषि चाभियुक्ता नक्षत्रयोगेषु च निश्चयज्ञाः
उच्चावचं दैवयुक्तं रहस्यं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः
क्षयं महान्तं कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयं च
यथा हि नो मन्यतेऽजातशत्रुस्संसिद्धार्थो द्विषतां निग्रहाय
जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः
अहं तथैनं खलु भाविरूपं पश्यामि बुद्ध्या स्वयमप्रमत्तः
दृष्टिश्च मे न व्यथते पुराणी संयुध्यमाना धार्तराष्ट्रा न सन्ति
अनालब्धं जृम्भति गाण्डिवं धनुरनाहता कम्पति मे धनुर्ज्या
बाणाश्च मे तूणीरमुखाद्विसृत्य मुहुर्मुहुर्गन्तुमुशन्ति चैव
खड्गः कोशान्निस्सरति प्रसन्नो हित्वेव जीर्णामुरगस्त्वचं स्वाम्
ध्वजे वाचो रौद्ररूपा भवन्ति कदा रथो योक्ष्यते ते किरीटिन्
गोमायुसङ्घाश्च नदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्
मृगास्सृगालाश्शितिकण्ठाश्च काका गृध्रा बकाश्चैव तरक्षवश्च
सुवर्णपत्राश्च पतन्ति पश्चाद्दृष्ट्वा रथं श्वेतहयप्रयुक्तम्
अहं ह्येकः पार्थिवान्सर्वयोधान्शरान्वर्षन्मृत्युलोकं नयेयम्
समाददानः पृथगस्त्रमार्गान्यथाग्निरिद्धो गहनं निदाघे
स्थूणाकर्णं पाशुपतं महास्त्रं ब्राह्मं चास्त्रं यच्च शक्रोऽददान्मे
वधे धृतो वेगवतः प्रमुञ्चन्नाहं प्रजाः किञ्चिदिहावशिष्ये
शान्तिं लप्स्ये परमो ह्येष भावस्स्थिरो मम ब्रूहि गावल्गणे तान्
ये वा जय्यास्समरे सूत लब्ध्वा देवानपीन्द्रप्रमुखान्समेतान्
तैर्मन्यते कलहं सम्प्रयुज्य स धार्तराष्ट्रः पश्यत मोहमस्य
वृद्धो भीष्मश्शान्तनवः कृपश्च द्रोणस्सपुत्रो विदुरश्च धीमान्
एते सर्वे यद्वदेयुस्तदस्तु आयुष्मन्तः कुरवस्सन्तु सर्वे