वैशम्पायनः-
एवं सनत्सुजातेन विदुरेण च धीमता
सार्धं कथयतो राज्ञस्सा व्यतीयाय शर्वरी
तस्यां रजन्यां व्युष्टायां राजानस्सर्व पार्थिवाः
सभामाविविशुर्हृष्टास्सूतस्योपदिदृक्षया
शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः
धृतराष्ट्रमुखास्सर्वे ययू राजन्सभां शुभाम्
सुधावदातां सम्पूर्णकनकाजिरभूषिताम्
चन्द्रप्रभां सुरुचिरां सिक्तां चन्दनवारिणा
रुचिरैरासनैस्स्तीर्णां काञ्चनैर्दारवैरपि
अश्मसारमयैर्दान्तैस्स्वास्तीर्णैस्सोत्तरच्छदैः
भीष्मो द्रोणः कृपश्शल्यः कृतवर्मा जयद्रथः
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः
सर्वे च सहिताश्शूराः पार्थिवा भरतर्षभ
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम्
दुश्शासनश्चित्रसेनश्शकुनिश्चापि सौबलः
दुर्मुखो दुस्सहः कर्ण उलूकोऽथ विविंशतिः
एते चान्ये च बहवः पार्थिवा भरतर्षभ
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्
विविशुस्तां सभां राजन्सुराश्शक्रसदो यथा
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः
शुशुभे सा सभा रजन्सिंहैरिव गिरेर्गुहा
ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः
आसनानि विचित्राणि भेजिरे सूर्यवर्चसः
आसनस्थेषु सर्वेषु तेषु राजसु भारत
द्वास्स्थो निवेदयामास सूतपुत्रमुपस्थितम्
अयं सरथ आयाति योऽयासीत्पाण्डवान्प्रति
दूतो नस्तूर्णमायातस्सैन्धवैस्साधुवाहिभिः
उपेयाय स तु क्षिप्रं रथात्प्रस्कन्द्य कुण्डली
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः
सञ्जयः-
प्राप्तोऽस्मि पाण्डवान्गत्वा मां विजानीत कौरवाः
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्
पुनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः
अब्रवं पाण्डवान्गत्वा तं निबोधत पार्थिवाः
अब्रूतां तत्र धर्मेण वासुदेवधनञ्जयौ