सनत्सुजातः-
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः
यद्वै देवा उपासते यस्मादर्को विराजते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते
तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
पूर्णात्पूर्णमुद्धरन्ति पूर्णात्पूर्णं प्रचक्षते
हरन्ति पूर्णात्पूर्णं च पूर्णेनैवावशिष्यते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
आपोऽथाद्भ्यस्सलिलं यस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे
आदध्रीचीस्सविषूचीर्वसानावुभौ बिभर्ति पृथिवीं दिवं च
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
उभौ च देवौ पृथिवीं दिवं च दिशश्च शुक्रं भुवनं बिभर्ति
तस्माद्दिशस्सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्ताः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम्
मनीषयाथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
द्वादशपूगास्सरितं सततं देवरक्षिताः
मध्वीशते तथा शुद्धां तथा सञ्चरन्तीह घोराम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
तदर्धमासं पिबति सञ्चितं भ्रमरो मधु
ईशानस्सर्वभूतेषु हविर्भूतमकल्पयत्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
हिरण्यपर्णमश्वत्थमभिपत्य ह्यपक्षकाः
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथासुखम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
यस्माच्च वायुरायातो यस्माच्च प्रलयस्तथा
तस्मादग्निश्च सोमश्च तस्माच्च प्राण आगतः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः
आदित्यो गिरते चन्द्रमादित्यं गिरते परः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्
तं चेत्सततमुत्क्षिपेन्न मृत्युर्नामृतं भवेत्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एवंरूपो महात्मा स पावकं पुरुषो गिरन्
यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
यस्सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत्
नान्तं गच्छेत्कारणस्य अपि वा स्यान्मनोजवः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुसमिद्धसत्त्वाः
हीनो मनीषी मनसाऽभिपश्येद्ये प्रव्रजेयुरमृतास्ते भवन्ति
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम्
तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
गूहन्ति सर्पा इव गह्वरेषु क्षयं नीत्वा स्वेन वृत्तेन मर्त्यान्
ते विप्रमुह्यन्ति जना विमूढास्तैर्दत्ता वै मोहयन्ते भवाय
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
नाहं सदाऽसत्कृतस्स्यां न मृत्युरप्यव्ययस्येह मृतं कुतस्स्यात्
सत्यामृते सत्यसमानबन्धे सतश्च योनिरसतश्चैक एव
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
असाधना वाऽपि ससाधना वाऽसमानमेतद्दृश्यते मानुषेषु
समानमेतदमृतस्येतरस्य युक्तास्तत्र मध्व उत्सं समापुः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
उभौ लोकौ विद्यया चाप्य याति तदा हुतं चाहुतमग्निहोत्रम्
मा ते ब्राह्मी लघुतामादधीत प्रज्ञानं स्यान्नाम धीरा लभन्ते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
नास्यातिवादा हृदयं तापयाना नानाहुतं नाहुतमग्निहोत्रम्
मनो ब्राह्मीं लघुतामादधीत प्रज्ञां चास्मै नाम धीरा लभन्ते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एवं यस्सर्वभूतेषु आत्मानमनुपश्यति
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम्
यथोदपाने महति सर्वतस्सम्प्लुतोदके
एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा न दृश्यतेऽसौ हृदये निविष्टः
अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रपन्नः
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः
आत्माऽहमपि सर्वस्य यच्च नास्ति यदस्ति च
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत
ममैव यूयमात्मस्था न मे यूयं न वाप्यहम्
आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः
अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः
अणोरणीयान्सुमनास्सर्वभूतेष्ववस्थितः
पितरं सर्वभूतानां पुष्करे निहितं विदुः