सनत्सुजातः-
शोकः क्रोधश्च कामश्च लोभो मानः परासुता
ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता
द्वादशैते महादोषा मनुष्यप्राणनाशनाः
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते
यैराविष्टो नरः पापं मूढसञ्ज्ञो व्यवस्यति
स्पृहयालुरुग्रः परुषो वा वदान्यः क्रोधं बिभ्रन्मनसा वै विकत्थी
नृशंसधर्माष्षडिमे जना वै प्राप्याप्यर्थं नोत सभाजयन्ते
सम्भोगसंविद्विषमोऽतिमानी दत्त्वा विकत्थी कृपणो दुर्बलश्च
बहुप्रशंसी वनिताद्विट् सदैव सप्तैवोक्ताः पापशीला नृशंसाः
धर्मश्च सत्यं च तपो दमश्च अमात्सर्यं ह्रीस्तितिक्षानसूया
दानं श्रुतं चैव धृतिः क्षमा च महाव्रता द्वादश ब्राह्मणस्य
यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यस्सर्वामपीमां पृथिवीं स शिष्यात्
त्रिभिर्द्वाभ्यामेकतो वाऽर्थितो यो नास्य स्वमस्तीति च वेदितव्यम्
धर्मस्त्यागोऽप्यप्रमाद इत्येते ह्यमृतं स्मृतम्
एतानि ब्रह्मसङ्ख्यानां ब्राह्मणानां मनीषिणाम्
सद्वाऽसद्वा परीवादो ब्राह्मणस्य न शस्यते
नरके ते प्रतिष्ठास्स्युर्य एवं कुरुते जनाः
मदोऽष्टादशदोषस्स्याल्लोमशेन प्रकीर्तितः
लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः
कामक्रोधौ पारधीन्यं परिवादोऽथ पैशुनम्
अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम्
ईर्ष्या मोहोऽतिमानश्च सञ्ज्ञानाशोऽप्यनार्यता
तस्मात्प्राज्ञो न माद्येत सतां ह्येतद्विगर्हितम्
सौहृदे वै षड्गुणा वेदितव्याः प्रिये हृष्यन्त्यप्रिये च व्यथन्ते
स्यादात्मनस्सुचिरं याचते यो ददात्ययाच्यमपि देयं खलु स्यात्
इष्टान्पुत्रान्विभवान्स्वांश्च दारानभ्यर्थितश्चार्हति शुद्धभावः
त्यक्तद्रव्यस्संवसते न कामाद्भुङ्क्ते कर्मस्वाशिषं बाधते च
द्रव्यवान्गुणवान्यश्च त्यागी भवति सात्विकः
पञ्च भूतानि पञ्चभ्यो निवर्तयति तादृशः
एतत्समृद्धमप्यृद्धं तपो भवति केवलम्
सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम्
यतो यज्ञाः प्रवर्धन्ते सत्यस्यैवावरोधनात्
मनसान्यस्य भवति वाचाऽन्यस्याथ कर्मणा
सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति
ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे शृणु
अध्यापयीत महदेतद्यशस्यं वाचो विकारान्कवयो वदन्ति
अस्मिन्योगे सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति
न कर्मणा सुकृतेनेह राजन्सत्यं वदेज्जुहुयाद्वा यजेद्वा
नैतेन बालोऽमृत्युमभ्येति राजन्रतिं चासौ न लभत्यन्तकाले
तृष्णीमेकमुपासीत नेष्टेन मनसाऽपि न
तथा संस्तुतिनिन्दाभ्यां प्रीतिद्वेषौ विवर्जयेत्
अत्रैव तिष्ठन्क्षत्रिय ब्रह्मावसति पश्यति
वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते