धृतराष्ट्रः-
सनत्सुजात यामिमां परार्थां ब्राह्मीं वाचं वदसि हि विश्वरूपाम्
परां हि कार्येषु सुदुर्लभां कथां तद्ब्रूहि मे वाक्यमिदं कुमार
सनत्सुजातः-
नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छस्यभिषङ्गेण राजन्
बुद्धौ विलीने मनसि प्रचिन्त्या विद्या हि सा ब्रह्मचर्येण लभ्या
धृतराष्ट्रः-
आद्यां विद्यां वदसि हि सत्यरूपां या प्राप्यते ब्रह्मचर्येण सद्भिः
अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत
सनत्सुजातः-
अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्
यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या
धृतराष्ट्रः-
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा
तत्कथं ब्रह्मचर्यं स्यादेतद्विद्वन्ब्रवीहि मे
सनत्सुजातः-
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भं ब्रह्मचर्यं चरन्ति
इहैव ते शास्त्रकारा भवन्ति विहाय देहं परमं यान्ति सत्यम्
येऽस्मिल्ँलोके विजयन्तीह कामान्ब्राह्मीं स्थितिमनुतितिक्षमाणाः
त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव धीरभावात्
शरीरमेतौ कुरुतः पिता माता च भारत
आचार्यतस्तु यज्जन्म तत्सत्यं वै तथाऽमृतम्
यः प्रावृणोत्यवितथेन वर्णानृतं कुर्वन्नमृतं सम्प्रयच्छन्
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन्
गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः
मानान्न माद्येन्नादधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यश्शुचिः
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते
यथा नित्यं गुरौ वृत्तिर्गरुपत्न्यां तथाऽऽचरेत्
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते
य आचार्येणात्मकृतं विजानञ्ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन
यन्मन्यते तं प्रति हृष्टबुद्धिस्स वै तृतीयो ब्रह्मचर्यस्य पादः
नाचार्याय कृतमिति चाभिमानात्प्राज्ञो मन्येन्नैतदहं करोमि
इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः
आचार्याय प्रियं कुर्यात्प्राणैरपि धनैरपि
कर्मणा मनसा वाचा चतुर्थः पाद उच्यते
कालेन पादं लभते तथाऽयं तथैव पादं गुरुयोगतश्च
उत्साहयोगेन च पादमृच्छेच्छास्त्रेण पादं च ततोऽभियाति
ज्ञानादयो द्वादश यस्य रूपमन्यानि चाङ्गानि तथा बलं च
आचार्ययोगे फलतीति चाहुर्ब्रह्मार्थयोगेन च ब्रह्मचर्यम्
एवं प्रवृत्तो यदुपालभेत वै धनं ह्याचार्याय तदनुप्रयच्छेत्
सतां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा
एवं वसन्सर्वतो वर्धते च बहून्पुत्रांल्लभते च प्रतिष्ठाम्
वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च
एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन्
ऋषयश्च महाभागा ब्रह्मचर्येण चाभवन्
एतेनैव सगन्धर्वा रूपमप्सरसोऽजयन्
एतेन ब्रह्मचर्येण सूर्य अह्नाय जायते
आकाङ्क्ष्यार्थसमायोगाद्रसभेदोऽर्थिनामिव
एवमेतत्समाज्ञाय तादृग्भावं गतास्त्विमे
य आश्रयेत्पावयेच्चापि राजन्सर्वं शरीरं तपसा तप्यमानः
एतेन वै बाल्यमभ्येति विद्वान्मृत्युं तथा स जयत्यन्तकाले
अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन
ज्ञानेन विद्वांस्तेज अभ्येति नित्यं न विद्यते ह्यन्यथा तस्य पन्थाः
धृतराष्ट्रः-
आभाति शुक्लमिव लोहितमिवाथो कृष्णमथार्जुनं काद्रवं वा
यद्ब्रह्मणः पश्यति यत्र विद्वान्कथंरूपं तदमृतमक्षरं परम्
सनत्सुजातः-
नाभाति शुक्लमिव लोहितमिवाथो कृष्णमथार्जुनं काद्रवं वा
न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य
न चापि वायौ न च देवतासु न वै चन्द्रे दृश्यते नोत सूर्ये
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु
रथन्तरे बार्हद्रथे वापि राजन्महाव्रस्यात्मनि दृश्यते तत्
अपारणीयं तमसः परस्तात्तदन्ततोऽभ्येति विनाशकाले
अणीयोरूपं च तथाऽप्यणीयसां महत्स्वरूपं त्वपि पर्वतेभ्यः
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः
भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र च
अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति
यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति
तदेतदह्ना संस्थितं भाति सर्वं तदात्मवित्पश्यति ज्ञानयोगात्
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं य एद्विदुरमृतास्ते भवन्ति