धृतराष्ट्रः-
कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम्
मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति
सनत्सुजातः-
यतो न वेदा मनसा सहैनमनुप्रविशन्ति ततोऽथ मौनम्
यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन्
धृतराष्ट्रः-
ऋचो यजूंष्यथोऽधीते सामवेदं च यो द्विजः
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते
सनत्सुजातः-
नैनं सामान्यृचो वाऽपि यजूंषि च विचक्षण
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम्
न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम्
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले
धृतराष्ट्रः-
न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः
सनत्सुजातः-
तस्यैव नामादिविशेषरूपैरिदं जगद्भाति महानुभाव
निर्दिश्य सम्यक्प्रवदन्ति वेदास्तद्विश्ववैरूप्यमुदाहरन्ति
तदर्थमुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान्
पुण्येन पापं विनिहत्य पश्चात्स जायते ज्ञानविदीपितात्मा
ज्ञानेन चात्मानमुपैति विद्वानथान्यथा वर्गफलानुकाङ्क्षी
अस्मिन्कृतं तत्परिगृह्य सर्वममुत्र भुङ्क्ते पुनरेति मार्गम्
अस्मिल्ँलोके तपस्तप्तं फलमन्यत्र भुज्यते
ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः
ब्राह्मणानां तपस्स्वृद्धमन्येषां तावदेव तत्
एतत्समृद्धमत्यृद्धं तपो भवति केवलम्
धृतराष्ट्रः-
कथं समृद्धमप्यृद्धं तपो भवति केवलम्
सनत्सुजात तद्ब्रूहि कथं विद्यामहं प्रभो
सनत्सुजातः-
निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते
एतत्समृद्धमत्यृद्धं तपो भवति नान्यथा
तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः
धृतराष्ट्रः-
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम्
सनत्सुजातः-
क्रोधादयो द्वादश यस्य दोषास्तथा नृशंसानि षडत्र राजन्
ज्ञानादयो द्वादश चाततानाश्शास्त्रे गुणा ये विदिता द्विजानाम्
क्रोधः कामो लोभमोहौ विधित्सा कृपाऽसूया मानशोकौ स्पृहा च
ईर्ष्या जुगुप्सा च महागुणेन सदा वर्ज्या द्वादशैते नरेण
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः
विकत्थनस्स्पृहयालुर्मनस्वी बिभ्रत्क्रोधं चपलो रोषणश्च
एते प्रोक्ताष्षण्णराः पापशीलाः प्रकुर्वते नोत धर्मं सुदुर्गम्
सम्भोगसंविद्विषमोऽथ मानी दत्तानुतापी कृपणो बलीयान्
वर्गप्रशंसी वनितां च द्वेष्टा एते परे सप्त नृशंसरूपाः
ज्ञानं च सत्यं च दमश्श्रुतं च आमात्सर्यं ह्रीस्तितिक्षानसूया
यज्ञश्च दानं च धृतिश्शमश्च महाव्रता द्वादश ब्राह्मणस्य
यस्त्वेतेभ्योऽप्रभवेद्द्वादशभ्यस्सर्वामपीमां पृथिवीं स शिष्यात्
त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो नास्य स्वमस्तीति स वेदितव्यः
दमस्त्यागोऽथाप्रमाद एतेष्वमृतमाहितम्
तानि सत्यमुखान्याहुर्ब्राह्मणानां मनीषिणाम्
दमोऽष्टादशदोषस्यात्त्यागो भवति षड्गुणः
दोषत्यागोऽप्रमादस्स्यात्स चाप्यष्टगुणो मतः
दमोऽष्टादशदोषस्स्यात्प्रातिकूल्यं कृते भवेत्
अनृतं पैशुनं तृष्णा प्रातिकूल्यं तमोऽरतिः
लोकद्वेषोऽतिवादश्च विवादः प्राणिपीडितम्
परिवादोऽतिवादश्च परितापोऽक्षमाऽधृतिः
असिद्धिः पापकृत्यं च हिंसा चेति प्रकीर्तिताः
एतैर्दोषैर्विमुक्तो यस्स दमस्सद्भिरुच्यते
विपर्ययात्स्मृता एते मददोषा उदाहृताः
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत्
श्रेयांस्तु षड्विधस्त्यागस्तृतीयस्तत्र दुष्करः
तेन दुःखं तरत्येव तस्मिंस्त्यक्ते जितं भवेत्
अर्हते याचमानाय पुत्रान्वित्तं ददाति यत्
इष्टापूर्तं द्वितीयं स्यान्नित्यवैराग्ययोगतः
कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः
त्यक्तैर्द्रव्यैः प्रियो भूयो नोपयुङ्क्ते च कामतः
अप्रिये तु समुत्पन्ने व्यथां जातु न वाञ्छति
अप्रमादी भवेदेतैस्स चाप्यष्टगुणो महान्
सत्यं दानं समाधानं चोद्यं वैराग्यमेव च
अस्तेयो ब्रह्मचर्यं च तथाऽसङ्ग्रह एव च
एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत्
दोषत्यागेऽप्रमादस्स्यात्स चाप्यष्टगुणो मतः
तांस्तु सत्यमुखानाहुस्सत्ये ह्यमृतमाहितम्
सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः
निवृत्तेनैव दोषेण तपोव्रतमिहाचरेत्
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम्
दोषैरेतैर्वियुक्तं तु गुणैरेतैस्समन्वितः
एतत्समृद्धमत्यृद्धं तपो भवति केवलम्
धृतराष्ट्रः-
यन्मां पृच्छसि राजेन्द्र सङ्क्षेपातद्ब्रवीमि ते
एतत्पापहरं शुद्धं जन्ममृत्युजरापहम्
ऋद्धात्यृद्धविभेदं मे कथयस्व महामुने
सनत्सुजातः-
ऋद्धं तद्ब्राह्मणानां यदत्यृद्धमिह कामिनाम्
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत
अतीतानागतेभ्यश्च मुक्तश्चेत्स सुखी भवेत्
धृतराष्ट्रः-
आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः
तथा चान्ये चतुर्वेदास्त्रिवेदाश्च तथा परे
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे
एतेषु मेऽधिकं ब्रूहि यमहं वेद वै द्विजम्
सनत्सुजातः-
एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन्
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः
य एनं वेद तत्सत्यं प्राज्ञो भवति नित्यदा
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते
सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवन्
ततः कर्म प्रतायेत सत्यस्यानवधारणात्
मनसाऽन्यस्य भवति वाचाऽन्यस्याथ कर्मणा
सङ्कल्पसिद्धः पुरुषस्सङ्कल्पानधितिष्ठति
अनैभृत्येन वैतस्य दीक्षितव्रतमाचरेत्
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम्
तस्मात्क्षत्रिय मा मंस्था जपितेनैव वै द्विजम्
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया
छन्दांसि नाम क्षत्रिय तान्यथर्वणः पुरा जगौ महर्षिसङ्घ एषः
छन्दोविदस्ते य उतानधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम्
छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र
छन्दोविदस्तेन च तानधीत्य गता हि वेदस्य न वेद्यमार्याः
न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान्बुद्ध्यते वापि राजन्
यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम्
न वेदानां वेदिता कश्चिदस्ति वेदेन वेदं न विदुर्न वेद्यम्
यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम्
यो वेद वेदान्स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः
तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो भवन्ति
धर्मांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य
संवेदने चैव यथामनन्ति तस्मिन्हि सत्ये परमात्मनोऽर्थे
अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम्
एवं यो हि विजानाति स जानाति परं हि तत्
यश्छिन्नविचिकित्सस्स व्याचष्टे सर्वसंशयान्
तस्य चान्वेषणं गच्छेत्प्राचीनं नोत दक्षिणम्
नार्वाचीनं कुतस्तिर्यङ्ना विशन्तु कदाचन
नास्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम्
तूष्णीम्भूत उपासीत न चेच्छेन्मनसा ह्यपि
अभ्यवर्तेत ब्रह्मस्मै बह्वनन्तरमाप्नुयात्
मौनाद्धि मुनिर्भवति नारण्यवसनान्मुनिः
अक्षरं तं तु यो वेद स मुनिश्रेष्ठ उच्यते
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत्
ज्ञानादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति
वेदानां चानुपूर्व्येण चैतद्विद्वन्ब्रवीमि ते