धृतराष्ट्रः-
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे
विदुरः-
धृतराष्ट्र कुमारो वै यः पुराणस्सनातनः
सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः
धृतराष्ट्रः-
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव
विदुरः-
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम्
ब्राह्मीं हि योनिमापन्नस्सुगुह्यमपि यो वदेत्
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते
धृतराष्ट्रः-
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम्
कथमेतेन देहेन स्यादिहैव समागमः
वैशम्पायनः-
चिन्तयामास विदुरस्तमृषिं शंसितव्रतम्
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्
विदुरः-
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि
यं श्रत्वाऽयं मनुष्येन्द्रस्सर्वदुःखातिगो भवेत्
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ
विषहेरन्क्षयामर्षौ क्षुत्पिपासे भयाभये
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ