विदुरः-
योऽभ्यर्चितस्सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा
क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः
महान्तमप्यर्थमधर्मयुक्तं यस्सन्त्यजत्यनुपाकृष्ट एव
सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य
अनृते च समुत्कर्षो राजगामि च पैशुनम्
गुरोश्चालीकनिर्बन्धं समानि ब्रह्महत्यया
असूयैकपदं मृत्युरतिवादश्श्रियो वधः
अशुश्रूषा त्वरा श्लाघा विद्यायाश्शत्रवस्त्रयः
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च
स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च
एते वै सप्त दोषास्तु सदा विद्यार्थिनां मताः
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनस्सुखम्
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकस्सर्वभूतानां न पुंसां वामलोचना
आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधश्श्रियं हन्ति यशः कदर्यता
अपालनं हन्ति पशूंश्च राजन्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्
अजाश्च कांस्यं रजतं च नित्यं मध्वाकर्षश्शकुनिश्श्रोत्रियश्च
वृद्धो ज्ञातिरवसन्नः कुलीन एतानि ते सन्तु गृहे सदैव
अजोऽश्वश्चन्दनं वीणा आदर्शो मधुसर्पिषी
विषमौदुम्बरं शङ्खस्स्वर्णनाभोऽथ रोचना
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्
देवब्राह्मणपूजार्थमतिथीनां च भारत
इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम्
न जातु कामान्न भयान्न लोभाद्धर्मं जह्या जीवितस्यापि हेतोः
नित्यो धर्मस्सुखदुःखे ह्यनित्ये जीवो नित्यो धातुरस्य त्वनित्यः
त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये सन्तुष्य सन्तोषपरा हि सन्तः
महाबलान्पश्य महानुभावान्प्रशास्य भूमिं धनधान्यपूर्णाम्
सज्जान्हित्वा विपुलांश्च भोगान्गतान्नरेन्द्रान्वशमन्तकस्य
मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति
तं मुक्तकेशाः करुणं रुदन्तश्चितामध्ये काष्ठमिव क्षिपन्ति
अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून्
द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः
उत्सृज्य विनिवर्तन्ते ज्ञातयस्सुहृदस्सुताः
अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम्
तस्मात्तु सुसुखो यत्नाद्धर्मं सञ्चिनुयाच्छनैः
अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम्
तद्वै महामोहनमिन्द्रियाणां बुद्ध्यस्व मा त्वां प्रलभेत राजन्
इदं वचश्शक्ष्यसि चेद्यथावन्निशम्य सर्वं प्रतिपत्तुमेव
यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति
आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दयोर्मिः
तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमच्छोऽम्भ एव
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम्
कार्याकार्ये पूजयित्वा प्रसाद्य यस्सम्पृच्छेन्न स मुह्येत्कदाचित्
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा
चक्षुश्श्रोत्रे च मनसा मनो वाचं च कर्मणा
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी
सत्यं ब्रुवन्गुरवे कर्म कुर्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात्
अधीत्य वेदान्परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च
गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतस्सङ्ग्रामे क्षत्रियस्स्वर्गमेति
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च
त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते
ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः
तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध
क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्तत्त्वं राजन्राजधर्मे नियुङ्क्ष्व
धृतराष्ट्रः-
एवमेतद्यथाऽऽत्थ त्वमनुशाससि नित्यदा
ममापि च मतिस्सौम्य भवत्येवं यथात्थ माम्
विदुरः-
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा
दुर्योधनं समासाद्य पुनर्विपरिवर्तते
न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित्
दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम्