धृतराष्ट्रः-
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे
विदुरः-
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्
उभे त्वेते समे स्यातामार्जवं वा विशिष्यते
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि
यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना
स्वयंवरे स्थिता कन्या केशिनी नाम नामतः
रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया
विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी
केशिनी-
किं ब्राह्मणास्स्विच्छ्रेयांसो दितिजास्स्विद्विरोचन
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति
इदं व्यवस्य पर्यङ्गं सुधन्वाप्यधिरोहतु
विरोचनः-
प्राजापत्या वयं श्रेष्ठा सर्वे केशिनि सत्तमाः
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः
केशिनी-
इह त्वं वस भौगा वै त्वदर्था मे विरोचन
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ
विरोचनः-
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ
विदुरः-
अतीतायां च शर्वर्यामुदिते सूर्यमण्डले
अथाजगाम तं देशं सुधन्वा राजसत्तम
विरोचनो यत्र विभो केशिन्या सहितस्स्थितः
सुधन्वानं समागच्छत्प्राह्लाः केशिनी तथा
समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ
प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः
इति होवाच वचनं विरोचनमनुत्तमम्
सुधन्वा-
आस्स्व तल्पे हि सौवर्णे प्राह्लादे ब्राह्मणस्त्वहम्
अन्वालभे हिरण्मयं प्राह्लादेदं वरासनम्
एकत्वमुपसम्पन्नो नत्वासेऽहं त्वया सह
विरोचनः-
तवार्हते तु फलकं कूर्चं वाप्यथवा बृसी
हरन्ति फलकं कूर्चं तथा ब्रुस्यस्तृणानि च
सुधन्वन्न त्वमर्होऽसि मया सह समासनम्
सुधन्वा-
पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम्
पिता हि ते समासीनमुपोपासीत मामधः
बालस्सुखोषितो गेहे न त्वं किञ्चन बुध्यसे
विरोचनः-
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः
सुधन्वा-
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः
विरोचनः-
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते
न तु देवेष्वहं स्थाता न मनुष्येषु कर्हिचित्
सुधन्वोवाच
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते
पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत्
विदुरः-
एवं कृतपणौ क्रुद्धौ तदा तत्रैव जग्मतुः
विरोचनसुधन्वानौ प्रह्लादौ यत्र तिष्ठति
प्रह्लादः-
इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह
आशीविषाविव क्रुद्धावेकमार्गाविहागतौ
किं वै सहैवं चरथो न पुरा चरथस्सह
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना
विरोचनः-
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे
तत्त्वां पृच्छावहे तात मा प्रश्नमनृतं वदेः
प्रह्लादः-
सुधन्वा-
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता
उदकं मधुपर्कं च प्रश्नवाचार्पितं मम
प्रह्लाद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः
किं ब्राह्मणास्स्विच्छ्रेयांस उताहोस्विद्विरोचनः
प्रह्लादः-
न कल्माषो न कपिलो न कृष्णो न च लोहितः
अणीयान्क्षुरधारायाः को धर्मं वक्तुमर्हति
पुत्रवान्यो भवेद्ब्रह्मन्साक्ष्ये चैव व्यवस्थितः
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्
सुधन्वा-
यदेतत्त्वं तु वक्तासि यदि वापि न वक्ष्यसि
प्रह्लाद प्रश्नमतुलं मूर्धा ते विफलिष्यति
विदुरः-
आदित्येन सहायान्तं प्रह्लादो हंसमब्रवीत्
धृतराष्ट्र महाप्राज्ञ सर्वज्ञं सर्वदर्शिनम्
प्रह्लादः-
पुत्रो वाऽन्यो भवेद्ब्रह्मन्साक्ष्ये चापि भवेत्स्थितः
तयोर्विवदतोर्हंस कथं धर्मः प्रवर्तते
हंसः-
गां वै दद्यात्त्वौरसाय यद्वाऽन्यत्स्यात्प्रियं धनम्
द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमंस्त्वया
प्रह्लादः-
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वाऽनृतम्
हंस तत्वं च पृच्छामि दुर्विवेक्तास्मि किं वदे
हंसः-
पृष्टो धर्मं न विब्रूयाद्गोकर्णशिथिलं चरन्
धर्माद्भ्रश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः
धर्म एतान्संरुजति यथा नद्यनुकूलजान्
श्रेष्ठोऽर्धं तु हरेत्तत्र भवेत्पादश्च कर्तरि
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते
पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः
कर्तारमेनो गच्छेत्तु निन्द्यो यत्र हि निन्द्यते
प्रह्लादः-
मोहाद्वा चैव कामाद्वा मिथ्यावादं यदि ब्रुवन्
धृतराष्ट्र तत्वं पृच्छामि दुर्विवक्ता तु किं वसेत्
हंसः-
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः
यां च भाराभितप्ताङ्गो दुर्विवक्ता तु तां वसेत्
नगरे प्रतिरुद्धस्सन्बहिर्द्वारे बुभुक्षितः
अमित्रान्भूयसः पश्यन्दुर्विवक्ता तु तां वसेत्
यां च रात्रिमभिद्रुग्धो यां च मित्रे प्रिये मृते
सर्वस्वेन च यो हीनो दुर्विवक्ता तु तां वसेत्
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
शतमश्वानृते हन्ति सहस्रं पुरुषानृते
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः
प्रह्लादः-
मत्तश्श्रेयानङ्गिरा वै सुधन्वा त्विद्वरोचन
माताऽस्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम्
सुधन्वा-
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः
पुनर्ददामि ते पुत्रं तस्मात्प्रह्लाद दुर्लभम्
एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः
पादप्रक्षालनं कुर्यात्कुमार्यास्सन्निधौ मम
विदुरः-
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि
मा गमस्ससुतामात्यो नाशं पुत्रार्थमब्रुवन्
न देवा दण्डमादाय रक्षन्ति पशुपालवत्
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्
यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तथा तथाऽस्य सर्वार्थास्सिद्ध्यन्ते नात्र संशयः
नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम्
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले
मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम्
राजद्वेषं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः
सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकृर्वीत सप्त
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि
अगारदाही गरदः कुण्डाशी सोमविक्रयी
चर्मकारश्च सूची च मित्रध्रुक्पारदारिकः
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः
अतितीक्ष्णश्च कारुश्च नास्तिको वेदनिन्दकः
सुवर्णग्रहणो व्रात्यः कीनाशश्चात्महाऽपि च
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः
तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया
क्रोधश्श्रियं शीलमनार्यसेवा ह्रियं कामस्सर्वमेवाभिमानः
न क्रोधिनोऽर्थो न नृशंसस्य मित्रं क्रूरस्य न स्त्री सुखिनो न विद्या
न कामिनो ह्रीरलसस्य न श्रीस्सर्वं तु न स्यादनवस्थितस्य
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते
दाक्ष्यात्तु कुरुते मूलं संयमान्प्रतितिष्ठति
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमश्श्रुतं च
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च
एतान्गुणांस्तात महानुभावानेको गुणस्संश्रयते प्रसह्य
राजा यदा संश्रयते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः
दमस्सत्यमार्जवमानृशंस्यं चत्वार्येतान्ववायन्ति सन्तः
इज्याध्ययनदानानि तपस्सत्यं घृणा क्षमा
अलोभ इति मार्गोऽयं धर्मस्याष्टविधस्स्मृतः
तत्र पूर्वचतुर्वर्गो धर्मार्थमपि शब्द्यते
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम्
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्
शौर्यं च शक्तिदानं च दशेमे स्वर्गयोनयः
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम्
पुण्यं कुर्वन्पुन्यकीर्तिः पुण्यमत्यन्तमश्नुते
तस्मात्पापं न कुर्वीत पुरुषस्संशितव्रतः
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः
नष्टप्रज्ञः पापमेव नित्यमारभते नरः
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन्
अनसूयुः कृतप्रज्ञश्शोभनान्याचरन्सदा
नकृच्छ्रं महदाप्नोति सर्वत्र च विरोचते
प्रज्ञामेवागमयति यः प्राज्ञेभ्यस्स पण्डितः
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम्
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत्
अष्टमासेन तत्कुर्याद्येन वर्षास्सुखं वसेत्
पूर्वे वयसि तत्कुर्याद्येन वृद्धस्सुखं वसेत्
यावज्जीवं तु तत्कुर्याद्येन प्रेत्य सुखं वसेत्
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम्
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते
असंवृतं तद्भवति ततोऽन्यदवदीर्यते
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्
अन्तः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः
ऋषीणां च नदीनां च कुलानां च महात्मनाम्
प्रभवो नाधिगन्तव्यस्स्त्रीणां दुश्चरितस्य च
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी
क्षत्रियश्शीलभाग्राजंश्चिरं पालयते महीम्
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च
दुर्योधनेऽथ शकुनौ मूढे दुश्शासने तथा
कर्मे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि
सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्