वैशम्पायनः-
धृतराष्ट्रः-
वैशम्पायनः-
द्वास्स्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः
विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम्
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत्
दूतः-
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति
वैशम्पायनः-
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम्
अब्रवीद्धृतराष्ट्राय द्वास्स्थं मां प्रतिवेदय
द्वास्स्थः-
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्
द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम्
धृतराष्ट्रः-
प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम्
अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने
द्वास्स्थः-
प्रविशान्तःपुरं क्षत्तर्महारादजस्य धीमतः
न हि ते दर्शनेऽकाल्यो जातु राजाऽब्रवीद्धि माम्
वैशम्पायनः-
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम्
विदुरः-
विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात्
यदि किञ्चन कर्तव्यमयमस्मि प्रशाधि माम्
धृतराष्ट्रः-
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः
अजातशत्रोश्श्वो वाक्यं सभामध्ये स वक्ष्यति
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम्
जाग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि
यतः प्राप्तस्सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः
सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव मेऽद्य चिन्ता
तन्मे ब्रूहि विदुर त्वं यथावन्मनीषितं सर्वमजातशत्रोः
यथा च नस्तात हितं भवेच्च प्रजाश्च सर्वास्सुखिता भवेयुः
विदुरः-
अभियुक्तं बलवता दुर्बलं हीनसाधनम्
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप
कच्चिच्च परवित्तेषु गृध्नन्न परितप्यसे
धृतराष्ट्रः-
श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः
अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः
विदुरः-
राजा लक्षणसम्पन्नस्त्रैलोक्यस्याधिपो भवेत्
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः
विपरीतस्सपुत्रस्त्वं भागधेयेन लम्भितः
अर्चिषा प्रज्ञया चैव धर्मात्मा धर्मकोविदः
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात्
गुरुत्वं त्वयि सम्प्रेक्ष्य बहून्क्लेशांस्तितिक्षते
दुर्योधने सौबले च कर्णे दुश्शासने तथा
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता
वाक्संयमश्च दानं च नैतेष्वेतानि कृत्स्नशः
एकस्माद्वृक्षाद्यज्ञपात्राणि राजन्स्रुक्च द्रोणी वेढनी पीडने च
एतद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च
निषेवते प्रशस्तानि निन्दितानि न सेवते
अनास्तिकश्श्रद्दधान एतत्पण्डितलक्षणम्
क्रोधो हर्षश्च दर्पश्च ह्रीस्स्तम्भो मान्यमानिता
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे
कृतमेवास्य जानन्ति स वै पण्डित उच्यते
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते
कामादर्थं वृणीते यस्स वै पण्डित उच्यते
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते
न किञ्चिदवमन्यन्ते पण्डिता भरतर्षभ
क्षिप्रं विजानाति चिरं श्रृणोति विज्ञाय चार्थं भजते न कामात्
नासम्पृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ
न हृष्यत्यात्मसम्माने नावमानेन तप्यते
गाङ्गो ह्रद इवाक्षोभ्यो यस्स पण्डित उच्यते
तत्त्वज्ञस्सर्वभूतानां योगज्ञस्सर्वकर्मणाम्
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते
प्रशस्तवाक्चित्रकथ ऊहवान्प्रतिभानवान्
आशु ग्रन्थस्य वक्ता च यस्स पण्डित उच्यते
मनोज्ञस्सर्वभूतानां योगज्ञस्सर्वकर्मणाम्
उपायज्ञो मनुष्याणां स वै पण्डित उच्यते
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा
असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव च
विचरत्यसमुन्नद्धो यस्स पण्डित उच्यते
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति
मिथ्या चरति मित्रार्थे यश्च मूढस्स उच्यते
अकामान्कामयति यः कामयानान्परित्यजेत्
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम्
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्
संसारयति कृत्यानि सर्वत्र विचिकित्सते
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ
श्राद्धं पितृभ्यो नादत्ते दैवतानि न चार्चति
सुहृन्मित्रं न लभते तमाहुर्मूढलक्षणम्
अनाहूतः प्रविशति अपृष्टो बहु भाषते
विश्वसित्यप्रशान्तेषु मूढचेता नराधमः
परं क्षिपति दोषेण वर्तमानस्स्वयं तथा
यश्च क्रुध्यत्यनीशानस्स च मूढतमो नरः
आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम्
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते
अशिष्यं शास्ति यो राजन्यश्च शिष्यं न शास्ति च
कदर्यं भजते यश्च तमाहुर्मूढचेतसम्
एकस्सम्पन्नमश्नाति वस्ते वासश्च शोभनम्
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम्
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः
एकस्स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्
एको न गच्छेदध्वानं नैकस्सुप्तेषु जागृयात्
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते
यदेनं क्षमया युक्तमशक्तं मन्यते जनः
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं सुखम्
क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा
क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः
अतृणे पतितो वह्निस्स्वयमेवोपशाम्यति
अक्षमावान्परं दोषैरात्मानं चैव योजयेत्
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा
विद्यैका परमा तृप्तिरहिंसैका सुखावहा
द्वाविमौ ग्रसते भूमिस्सर्पौ बिलशयाविव
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्
पृथिव्यां सागरान्तायां द्वाविमौ पुरुषाधमौ
गृहस्थो वै निरारम्भस्सारम्भश्चैव भिक्षुकः
द्वे कर्मणी नरः कुर्वन्नस्मिल्ँलोके महीयते
अब्रुवन्परुषं किञ्चिदसतोऽनर्चयंस्तथा
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ
स्त्रियः कामितकामिन्यो मूर्खाः पूजितपूजकाः
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्
द्वावम्भसि निवेष्टव्यौ गले बध्वा दृढां शिलाम्
धनवन्तमदातारं दरिद्रं चातपस्विनम्
द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु
त्रय एवाधना राजन्भार्या दासस्तथा सुतः
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्
हरणं च परस्वानां परदाराभिमर्शनम्
सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्
भक्तं च भजमानं च तवास्मीति च वादिनम्
त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि न सन्त्यजेत्
वरप्रदानं राष्ट्रं च पुत्रजन्म च भारत
शत्रोश्च मोक्षणं कृत्वा त्रीणि चैकं च तत्समम्
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात्
अल्पप्रज्ञैस्सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च
चतवारि ते तात गृहे वसन्तु श्रियाऽभिजुष्टस्य गृहस्थधर्मे
वृद्धो ज्ञातिरवसन्नः कुलीनस्सखा दरिद्रो भगिनी चानपत्या
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे
देवतानां च सङ्कल्पमनुभावं च धीमताम्
विनयं कृतविद्यानां विनाशं पापकर्मणाम्
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ
पञ्चैव पूजयल्ँलोके यशः प्राप्नोति केवलम्
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान्
पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम्
ततोऽस्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम्
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
ग्रामकामं च गोपालं वनकामं च नापितम्
षडेव तु गुणाः पुंसा न हातव्याः कदाचन
सत्यं दानमनालस्यमनसूया क्षमा धृतिः
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियःSV-05-03-032-090a
वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि तात
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः
प्रमदाः कामयानेषु यजमानेषु याजकाः
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः
षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात्
गावस्सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम्
आचार्यं शिक्षिताश्शिष्याः कृतदाराश्च मातरम्
नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम्
नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकान्
आरोग्यमानृण्यमविप्रवासस्सद्भिर्मनुष्यैस्सह सम्प्रयोगः
स्वप्रत्यया वृत्तिरभीतवासष्षट् जीवलोकस्य सुखानि राजन्
ईर्षुर्घृणी न सन्तुष्टः क्रोधनो नित्यशङ्कितः
परभाग्योपजीवी च षडेते नित्यदुःखिताः
सप्त दोषास्सदा राज्ञा हातव्या विजिगीषिणा
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्
महच्च दण्डपारुष्यमर्थदूषणमेव च
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति
रमते निन्दया चैषां प्रशंसां नाभिनन्दति
नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुध्वा विसर्जयेत्
अष्टाविमानि हर्षस्य नवनीतानि भारत
वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि
समागमश्च सखिभिर्महांश्चैव धनागमः
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने
समये च प्रियालापस्स्वयूथ्येषु समुन्नतिः
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमश्श्रुतं च
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च
विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम्
जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम्
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा
सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम्
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः
प्राप्यापदं न व्यथते कदाचिदुद्योगमन्वच्छति चाप्रमत्तः
दुःखं च काले सहते जितात्मा धुरन्धरस्तस्य जितास्सपत्नाः
अनर्थकं विप्रवासं गृहेभ्यः पापैस्सन्धिं परदाराभिमर्शम्
दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यस्स सुखी सदैव
न संरम्भेणारभते त्रिवर्गमाकारितश्शंसति तत्त्वमेव
न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः
न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति
नात्याह किञ्चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम्
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान्
न मूर्च्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनो हि
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति शान्तिमेति
न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः
दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः
देशाचारान्समयाञ्जातिधर्मान्बुभूषते यस्स परावरज्ञः
स यत्र तत्राभिगतस्सदैव महाजनस्याधिपत्यं करोति
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम्
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः
दमं शौचं दैविकं मङ्गलानि प्रायश्चित्तान्विविधाल्ँलोकवादान्
एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति
समैर्विवाहं कुरुते न हीनैस्समैस्सख्यं व्यवहारं कथाश्च
गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयास्सुनीताः
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा
ददात्यमित्रेष्वपि याचितस्संस्तमात्मवन्तं प्रजहत्यनर्थाः
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित्
मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः
यस्सर्वभूतप्रशमे निविष्टस्सत्यो मृदुर्मानकृच्छुद्धभावः
अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः
यश्चात्मनाऽपत्रपते भृशं नरस्स सर्वलोकस्य गुरुर्भवत्युत
अनन्ततेजास्सुमनास्समाहितस्स्वतेजसा सूर्य इवावभासते
वने जाताश्शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः
त्वयैव बाला वर्धिताश्शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय
प्रदायैषामुचितं तातराज्यं सुखी पुत्रैस्सहितो मोदमानः
न देवानां नापि च मानुषाणां भविष्यसि त्वं गर्हणीयो नरेन्द्र