वैशम्पायनः-
धर्मराजस्य तु वचश्श्रुत्वा पार्थो धनञ्जयः
उवाच सञ्जयं तत्र वासुदेवस्य शृण्वतः
अर्जुनः-
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय
द्रोणं सपुत्रं शल्यं च महाराजं च बाह्लिकम्
विकर्णं सोमदत्तं च शकुनिं चापि सौबलम्
विविंशतिं चित्रसेनं जयत्सेनं च सञ्जय
भगदत्तं तथा चैव शूरं रणकृतां वरम्
ये चाप्यन्ये कुरवस्तत्र सन्ति राजानश्चेद्भूमिपालास्समेताः
युयुत्सवः पार्थिवास्सैन्धवाश्च समानीता धार्तराष्ट्रेण सूत
यथान्यायं कुशलं वन्दनं च समागमे मद्वचनेन वाच्याः
ततो ब्रूयास्सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम्
वैशम्पायनः-
एवं प्रतिष्ठाप्य धनञ्जयस्तं ततोऽर्थवद्धर्मवच्चापि पार्थः
उवाच वाक्यं स्वजनप्रहर्षं वित्रासनं धृतराष्ट्रात्मजानाम्
अर्जुनेन समादिष्टस्तथेत्युक्त्वा तु सञ्जयः
पार्थानामन्त्रयामास केशवं च यशस्विनम्
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः
तदा तु सञ्जयः क्षिप्रमेकाहेन परन्तपः
याति स्म हास्तिनपुरं निशाकाले परन्तप
सम्प्राप्य हास्तिनपुरं शीघ्रमश्वैर्महाजवैः
अन्तःपुरमुपस्थाय द्वास्स्थं वचनमब्रवीत्
सञ्जयः-
आचक्ष्व धृतराष्ट्राय द्वास्स्थ मां समुपागतम्
सकाशात्पाण्डुपुत्राणां सञ्जयं मा चिरं कृथाः
जागर्ति चेदभिवदेस्त्वं हि द्वास्स्थ प्रविशेयं विदितो भूमिपस्य
द्वास्स्थः-
सञ्जयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते
प्राप्तो दूतः पाण्डवानां सकाशात्प्रशाधि राजन्किमयं करोतु
धृतराष्ट्रः-
आचक्ष्व मां कुशलिनं कल्पमस्मै प्रवेश्यतां स्वागतं सञ्जयाय
न चाहमेतस्य भवाम्यकाल्यस्स मे कस्माद्द्वारि तिष्ठेच्च सूतः
वैशम्पायनः-
ततः प्रविश्यानुमते नृपस्य महावेश्म प्राज्ञशूरार्यगुप्तम्
सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिस्सूतपुत्रः
सञ्जयः-
सञ्जयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान्
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत्
स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च
तथा सुहृद्भिस्सचिवैश्च राजन्ये चापि त्वामुपजीवन्ति तैश्च
धृतराष्ट्रः-
अभिनन्द्य त्वां तात वदामि सञ्जय अजातशत्रुं च सुखेन पार्थम्
कच्चित्स राजा कुशली सपुत्रस्सहामात्यस्सानुजः कौरवाणाम्
सञ्जयः-
सहामात्यः कुशली पाण्डुपुत्रो बुभूषते यच्च तेऽग्रे मनोऽभूत्
निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च
परो धर्मः पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य
सुखप्रियेऽधर्महीनेऽनपार्थेऽनुरुध्यते भारत तस्य बुद्धिः
न त्वेव मन्ये पुरुषस्य कर्म सम्पद्यते सुप्रयुक्तं यथावत्
अकुर्वतस्स्याद्यदि चापि सर्वं तस्मान्नाहुः पौरुषं कर्मणोऽन्यत्
मातुः पितुः कर्मणाऽभिप्रसूतस्संवर्धते कर्मणा भोजनेन
प्रियाप्रिये सुखदुःखे च राजन्निन्दाप्रशंसे च भजेत येन॥
परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा
इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात्
इमं च दृष्ट्वा तव कर्मदोषं पापोदर्कं घोरमवर्णरूपम्
यावत्परं कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम्
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवावमुच्य
विरोचते ह्यार्यवृत्तेन वीरो युधिष्ठिरस्त्वयि पापं विसृज्य
अङ्गात्मनः कर्म निबोध राजन्धर्मार्थयुक्तादार्यवृत्तादपेतम्
उपक्रोशं चेह गतोऽसि राजन्भूयश्च पापं प्रसजेदमुत्र
स त्वमर्थं संशयितं विना तैराशंससे पुत्रवशानुगस्सन्
अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य
हीनप्रज्ञो दौष्कुलेयो नृशंसो धर्मद्वेषी क्षत्रविद्यास्वधीरः
एवन्धर्मानापदस्सन्तितीर्पेद्धीनो वीर्याद्यश्च भवेदशिष्टः
कुले जातो बलवान्यो यशस्वी बहुश्रुतस्सुखजीवी जितात्मा
धर्माधर्मौ ग्रथितौ यो बिभर्ति स ह्यस्य दिष्टस्य वशादुपैति
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि सम्प्रणेता
एवं युक्तस्सर्वमन्त्रैर्विहीनमनाशास्यं कर्म कुर्यादमूढः
तव ह्यमी मन्त्रविदस्समेत्य समासते कर्मसु नित्ययुक्ताः
तेषामयं बलवान्निश्चयश्च कुरुक्षये नियमेनोदपादि
अकालिकं कुरवो नाभविष्यन्पापेन चेत्पापमजातशत्रुः
इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत्
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं स्म द्रष्टुम्
अत्यक्रामत्स तथा सर्वमर्त्यान्स केशवो यस्य मनुष्यकारः
एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ
बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने
चक्षुश्श्रोत्रे नासिका त्वक्च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः
नातिप्रीतान्येव तृष्णाक्षये तु तान्यव्यथो दुःखहीनः प्रणुद्यात्
नत्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत्
मातुः पितुः कर्मणाभिप्रसूतस्संवर्धते विधिवद्भोजनेन
प्रियाप्रिये सुखदुःखे च राजन्निन्दाप्रशंसे च भजन्त एनम्
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव
स त्वां गर्हे भारतानां विरोधादन्तो नूनं भविताऽयं प्रजानाम्
नोचेदिदं तव कर्मापराधात्कुरून्दहेत्कृष्णवर्त्मेव कक्षम्
त्वमेवैको जातु पुत्रस्य राजन्वशं गत्वा सर्वलोके नरेन्द्र
यदात्मनः श्लाघसे द्यूतकाले नागाश्शमं पश्य विपाकमस्य
अनाप्तानां सङ्ग्रहात्त्वं नरेन्द्र तथाऽऽप्तानां निग्रहाच्चैव राजन्
भूमिं स्फीतां दुर्बलत्वादनन्तामशक्तस्त्वं रक्षितुं कौरवेय
अनुज्ञातो रथवेगावधूतश्श्रान्तोऽभिपद्ये शयनं नृसिंह
प्रातश्श्रोतारः कुरवस्सभायामजातशत्रोर्वचनं समेताः
धृतराष्ट्रः-
अनुज्ञातोऽस्यावसथं परैहि प्रपद्यस्व शयनं सूतपुत्र
प्रातश्श्रोतारः कुरवस्सभायामजातशत्रोर्वचनं समेताः