युधिष्ठिरः-
उत सन्तमसन्तं वा बालं धीरं च सञ्जय
उताबलं बलीयांसं धाता प्रकुरुते वशे
उत बालाय पाण्डित्यं पण्डितायोत बालताम्
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्
बलं जिज्ञासमानस्य आचक्षीथा यथातथम्
अथो मन्त्रं मन्त्रयित्वा याथातथ्येन हृष्टवत्
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम्
अभिवाद्योपसङ्गृह्य ततः पृच्छेरनामयम्
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम
राज्ये तान्स्थापयित्वाऽग्रे नोपेक्षेथा विनश्यतः
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित्
तात संहत्य जीवामो द्विषतां मा वशं गमः
तथा भीष्मं शान्तनवं भारतानां पितामहम्
शिरसा चाभिवदेथा मम नाम प्रकीर्तयन्
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः
भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः
स त्वं कुरु तथा तात स्वमतेन पितामह
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे
अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम्
मध्ये कुरूणामासीनमनुनीय पुनः पुनः
अपापां यदुपैक्षन्त कृष्णामेतां सभागताम्
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः
बलीयांसोऽपि सन्तो यत्तत्सर्वं कुरवो विदुः
यन्नः प्राव्राजयस्सौम्य अजिनैः प्रतिवासितान्
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति
यत्तच्छभायामाक्रम्य कृष्णां केशेष्वधर्षयत्
दुश्शासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम्
यथोचितं स्वकं भागं लभेमहि परन्तप
निवर्तय परद्रव्याद्बुद्धिं गृद्धां नरर्षभ
शान्तिरेवं भवेद्राजन्प्रीतिरेव परस्परम्
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम्
कुशस्थलं वृकस्थलं अवन्तीं वारणावतम्
अवसानं भवेदत्र किञ्चिदेकं च पञ्चमम्
भ्रातॄणां देहि पञ्चानां पञ्च ग्रामान्सुयोधन
शान्तिर्नोस्तु महाप्राज्ञ भ्रातृभिस्सह सञ्जय
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्
स्मयमानास्समायान्तु पाञ्चालाः कुरुभिस्सह
अक्षतान्कुरु पाञ्चालान्पश्येयमिति कामये
सर्वे सुमनसस्तात शाम्याम भरतर्षभ
अलमेव शमायास्मि तथा युद्धाय सञ्जय
धर्मार्थयोरलं चाहं मृदवे दारुणाय च