युधिष्ठिरः-
असंशयं सञ्जय सत्यमेतद्धर्मो वरः कर्मणां यत्त्वमात्थ
ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं यथा धर्मं यद्यधर्मं चरेयम्
यत्राधर्मो धर्मरूपाणि धत्ते धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः
बिभ्रद्धर्मो धर्मरूपं तथा च विद्वांसस्तं सम्प्रपश्यन्ति बुद्ध्या
एवं तथैवापदि लिङ्गमेतद्धर्माधर्मौ नित्यवृत्ती भजेताम्
आद्यं लिङ्गं यस्य तस्य प्रमाणमापद्धर्मं सञ्जय तं निबोध
लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत्तत्परीप्सेद्विहीनः
प्रकृतिस्थश्चापदि वर्तमान उभौ गर्ह्यौ भवतस्सञ्जयैतौ
अतोऽविनाशमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद्विधात्रा
सम्पश्येथाः कर्मसु वर्तमानान्विकर्मस्थान्सञ्जय गर्हयेस्त्वम्
आहोस्वित्त्वं मन्यसे सर्वमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम्।
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि
मनीषिणां सत्त्विच्छेदनाय विधीयते सत्सु वृत्तिस्सदैव
अब्रह्मण्यास्सन्ति तु ये न वैद्याः सर्वोच्छेदं साधु मन्येत तेभ्यः
सदध्वानः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये
यज्ञैषिणो ये च हि कर्म कुर्युर्नान्यं ततो नास्तिकोऽस्तीति मन्ये
यत्किञ्चनेदं वित्तमस्यां पृथिव्यां यद्देवानां त्रिदशानां परत्र
प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतस्सञ्जय कामये तत्
धर्मेश्वरः कुशलो नीतिमांश्च उपासिता ब्राह्मणानां मनीषी
नानाविधांश्चैव महाबलांश्च राज्ञो विजानन्ननुशास्ति कृष्णः
यदि ह्यहं विसृजाम्यस्य गर्ह्यो न युध्यमानो यदि जह्यां स्वधर्मम्
महायशाः केशवस्तद्ब्रवीतु वासुदेवस्तूभयोरर्थकामः
शैनेयोऽयं चेदयश्चान्धकाश्च वार्ष्णेयभोजाः कुकुरास्सृञ्जयाश्च
उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून्सुहृदो नन्दयन्ति
वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीतास्सर्व एवेन्द्रकल्पाः
मनस्विनस्सत्यपरायणाश्च महाबला यादवा भोगवन्तः
काश्यो बभ्रुश्श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम्
यस्मै कामान्वर्षति वासुदेवो ग्रीष्मात्यये मेघ इव प्रजाभ्यः
ईदृशोऽयं केशवस्तात भूयो विद्मो ह्येनं कर्मणां निश्चयज्ञम्
प्रियश्च नस्साधुतमश्च कृष्णो नातिक्रामे वचनं केशवस्य