सञ्जयः-
यथाऽऽत्थ मे पाण्डव तत्तथैव कुरून्कुरुश्रेष्ठ जनं च पृच्छसि
अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान्पृच्छसि यांस्त्वमेव
सन्त्येव वृद्धास्साधवो धार्तराष्ट्रे सन्त्येव पापाः पाण्डव तस्य विद्धि
दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः कुतो दायाल्ँलोपयेद्ब्राह्मणानाम्
यद्युष्मासु वर्ततेऽसावधर्म्यमद्रुग्धेषु द्रुग्धवत्तन्न साधु
मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो युष्मान्द्विषन्साधुवृत्तानसाधुः
स चापि जानाति भृशं च तप्यते शोचत्यन्तस्स्थविरोऽजातशत्रो
शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो गरीयान्
स्मरन्ति तुभ्यं नरदेव सङ्गमे युद्धे च जिष्णोश्च युधां प्रणेतुः
समुद्घुष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति
माद्रीसुतौ चापि रणाजिरेषु सर्वा दिशस्सम्पतन्तौ स्मरन्ति
सेनां वर्षन्तौ शरवर्षैरजस्रं महारथौ समरे दुष्प्रकम्प्यौ
न त्वेव मन्ये पुरुषस्य राजन्ननागतं ज्ञायते यद्भविष्यम्
त्वं चेत्तथा सर्वधर्मोपपन्नः प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम्
त्वमेवैतत्सर्वमतश्च भूयस्समीकुर्याः प्रज्ञयाऽजातशत्रो
न कामार्थं सन्त्यजेयुर्हि धर्मं पाण्डोस्सुतास्सर्व एवेन्द्रकल्पाः
त्वमेवैतत्प्रज्ञयाऽजातशत्रो समीकुर्या येन शर्माप्नुयुस्ते
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ये चाप्यन्ये सन्निविष्टा नरेन्द्राः
यान्मां ब्रवीद्धृतराष्ट्रो निशायामजातशत्रो वचनं पिता ते
सहामात्यस्सहपुत्रश्च राजन्समेत्य तां वाचमिमां निबोध
युधिष्ठिरः-
समागताः पाण्डवास्सृञ्जयाश्च जनार्दनो युयुधानो विराटः
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत्सूतपुत्र
सञ्जयः-
अजातशत्रुं च वृकोदरं च धनञ्जयं माद्रवतीसुतौ च
आमन्त्रये वासुदेवं च शौरिं युयुधानं चेकितानं विराटम्
पञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्षतं याज्ञसेनिम्
सर्वे वाचं शृणुतेमां मदीयां वक्ष्यामि यां भूतिमिच्छन्कुरूणाम्
शमं राजा धृतराष्ट्रोऽभिनन्दन्नयोजयत्त्वरमाणो रथं मे
सभ्रातृपुत्रस्वजनस्य राज्ञस्तद्रोचतां पाण्डवानां शमोऽस्तु
सर्वैर्धर्मैस्समुपेतास्तु पार्थास्संस्थानेन मार्दवेनार्जवेन
कुले जाता ह्यनृशंसा वदान्या ह्रीनिषेधाः कर्मणां निश्चयज्ञाः
न युज्यते कर्म युष्मासु हीनं सत्वं हि वस्तादृशं भीमसेनाः
उद्भासते ह्यञ्जनबिन्दुवत्तच्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयो भावसंस्थः
कस्तत्र कुर्याज्जातु कर्म प्रजानन्पराजयो यत्र समो जयश्च
ते वै धन्या यैः कृतं ज्ञातिकार्यं ते वै पुत्रास्सुहृदो बान्धवाश्च
उपक्रुष्टं जीवितं सन्त्यजेयुर्यतः कुरूणां नियतस्स्यादभावः
ते चेत्कुरूननुशिष्यार्थसार्थं निर्णीय सर्वान्द्विषतो निगृह्य
समं वस्तज्जीवितं मृत्युना स्याद्यज्जीवध्वं ज्ञातिवधेन साधु
को ह्येव युष्मान्सह केशवेन सचेकितानान्पार्षतबाहुगुप्तान्
ससात्यकीन्विषहते ह जेतुं लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान्
को वा कुरून्द्रोणभीष्माभिगुप्तानश्वत्थाम्ना शल्यकृपादिभिश्च
रणे विजेतुं विषहेत राजन्राधेयगुप्तान्सह भूमिपालैः
महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः
सोऽहं जये चैव पराजये च निश्श्रेयसं नाधिगच्छामि किञ्चित्
कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः
सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम्
कृताञ्जलिश्शरणं वः प्रपद्ये कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्
न ह्येवमेवं वचनं वासुदेवो धनञ्जयो वा जातु किञ्चिन्न कुर्यात्
प्राणान्दद्याद्याच्यमानः कुतोऽन्यदेतद्विद्वन्साधनार्थं ब्रवीमि
एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वश्शान्तिरिहोत्तमा स्यात्