वैशम्पायनः-
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः
उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः
स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम्
अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत
सञ्जयः-
गवल्गणिस्सञ्जयस्सूतसूनुरजातशत्रुमवदत्प्रतीतः
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम्
अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी
कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ
कच्चित्कृष्णा द्रौपदी राजपुत्र सत्यव्रता वीरपत्नी सुपुत्रा
मनस्विनी यत्र च वाञ्छसि त्वमिष्टान्कामान्भारत स्वस्तिकामः
युधिष्ठिरः-
गावल्गणे सञ्जय स्वागतं ते प्रीतात्माऽहं त्वाऽभिनन्दामि सूत
अनामयं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन्
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात्
पितामहो नस्स्थविरो मनस्वी महाप्राज्ञस्सर्वधर्मोपपन्नः
सकौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित्
कच्चिद्राजा धृतराष्ट्रस्सपुत्रो वैचित्रवीर्यः कुशली महात्मा
महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र
स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवास्सत्यसन्धश्शलश्च
द्रोणस्सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः
सर्वे कुरुभ्यस्स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां प्रधानाः
महाप्रज्ञास्सर्वशास्त्रेऽवदाता धनुर्भृतां मुख्यतमाः पृथिव्याम्
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कचिदेतेऽप्यरोगाः
येषां राष्ट्रे निवसति दर्शनीयो महेष्वासश्शीलवान्द्रोणपुत्रः
वैश्यापुत्रः कुशली तात कच्चित्महाप्राज्ञो राजपुत्रो युयुत्सुः
कर्णो मानी कुशली तात कच्चित्सुयोधनो यस्य मन्दो विधेयः
स्त्रियो वृद्धा भारतानां जनन्यो माहानस्यो दासभार्याश्च सूत
वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः
कच्चिद्राजा ब्राह्मणानां यथावत्प्रवर्तते पूर्ववत्तात वृत्तिम्
कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां सञ्जय नोपहन्ति
कच्चिद्राजा धृतराष्ट्रः सपुत्रस्समीक्षते ब्राह्मणातिक्रमान्वै
कच्चिन्न हेतोरिव सव्यलीकमुपेक्षते तेषु सदैव वृत्तिम्
एतज्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा
ते चेद्दोषं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम्
कच्चिद्राजा धृतराष्ट्रस्य पुत्रो बुभूषते वृत्तिममात्यवर्गे
कच्चिन्नाभेदेन जिजीविषन्ति सुहृद्रूपा दुर्हृदश्चैकमत्यात्
कच्चिन्न पापं कथयन्ति तात न पाण्डवानां कुरवस्सर्व एव
द्रोणस्सपुत्रस्सकृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित्
कच्चिद्ग्राह्यं धृतराष्ट्रं सपुत्रं समेत्याहुः कुरवस्सर्व एव
कच्चिद्दृष्ट्वा दस्युसङ्घान्समेतान्स्मरन्ति पार्थस्य युधां प्रणेतुः
मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्गुणेन
गाण्डीवमुक्तांस्तनयित्नुघोषानजिह्मगान्कच्चिदनुस्मरन्ति
न तं दृष्ट्वा कच्चिदस्ति प्रतीपं गतो गृहं जातु जगाम रङ्गात्
न चापश्यं कञ्चिदहं पृथिव्यां योधं समं वाऽप्यधिकं चार्जुनेन
यस्यैकषष्टिर्निशितास्तीक्ष्णधारास्सुवाससः पत्रिणो निस्सरन्ति
गदापाणिर्भीमसेनस्तरस्वी प्राद्रावयच्छत्रुसङ्घाननीके
नागः प्रभिन्न इव नड्वलेषु चङ्क्रम्यते कच्चिदेनं स्मरन्ति
माद्रीपुत्रस्सहदेवः कलिङ्गान्समागतानजयद्वार्धिकूले
वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति
उद्यन्नयं नकुलः प्रेषितोऽयं गावल्गणे सञ्जय पश्यतस्ते
दिशं प्रतीचीं वशमानयन्मे माद्रीपुत्रः कच्चिदेनं स्मरन्ति
पराभवो द्वैतवने य आसीद्दुर्मन्त्रिते घोषयात्रागतानाम्
यत्र मन्दाञ्छत्रुवशं प्रपन्नानमोचयद्भीमसेनोऽर्जुनश्च
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनं च युद्धे
गाण्डीवभृतच्शत्रुसङ्घानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति
न कर्मणा साधुनैकेन नूनं कार्यं शक्यं वै भवतीह सञ्जय
सर्वात्मना परिजेतुं वयं चेन्न शक्नुमो धृतराष्ट्रस्य पुत्रम्