धृतराष्ट्रः-
प्राप्तानाहुस्सञ्जय पाण्डुपुत्रानुपप्लव्ये तान्विजानीहि गत्वा
अजातशत्रुं च सभाजयेथा दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम्
सर्वान्वदेस्सञ्जय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हं निरुष्य
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्यापेतानामुपकारिणां सताम्
नाहं क्वचित्सञ्जय पाण्डवानां मिथ्यावृत्तिं काञ्चन जात्वपश्यम्
सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव
दोषं ह्येषां नाधिगच्छेत्परीप्सन्नित्यं कञ्चिद्येन गर्हाम पार्थान्
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिया नानुरुध्यन्ति कामान्
धर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्
धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगान्प्रतिपद्यन्ति पार्थाः
त्यजन्ति मित्रेषु धनानि काले न सन्त्रासाज्जीर्यति मैत्रमेषाम्
यथार्हमानार्थकरा हि पार्थास्त्वेषां द्वेष्टा नास्त्याजमीढपक्षे
अन्यत्र पापाद्विषमान्मन्दबुद्धेर्दुर्योधनात्क्षुद्रतराच्च कर्णात्
पुत्रो मह्यं मृत्युवशं जगाम दुर्योधनस्सञ्जय रागबुद्धिः
भागं हर्तुं घटते मन्दबुद्धिर्महात्मनां सञ्जय दीप्ततेजसाम्
येषां लोको हीनसुखप्रियाणां महात्मनां वर्धयते हि तेजः
उत्थानवीर्यस्सुखमेधमानो दुर्योधनस्सुकृतं मन्यते तत्
तेषां भागं यच्च मन्येत बालश्शक्यं हर्तुं जीवतां पाण्डवानाम्
यस्यार्जुनः पदवीं केशवश्च वृकोदरस्सात्यकोऽजातशत्रोः
माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति पुरा युद्धात्साधु तस्य प्रदानम्
स ह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः
तथा विष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा
तिष्ठेत कस्तस्य मर्त्यः पुरस्ताद्यस्सर्वलोकेषु वरेण्य एकः
पर्जन्यघोषान्प्रवपञ्छरौघान्पतङ्गसङ्घानिव शीघ्रवेगान्
दिशं ह्युदीचीमपि चोत्तरान्कुरून् गाण्डीवधन्वैकरथो जिगाय
धनं चैषामाहरत्सव्यसाची सेनानुगान्बलिदांश्चैव चक्रे
यश्चैव देवान्खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान्
उपाहरत्पल्गुनो जातवेदसे यशो मानं वर्धयन्पाण्डवानाम्
गदाभृतां नास्ति समोऽत्र भीमाद्धस्त्यारोहो नास्ति समश्च तस्य
रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्बलेनायुतनागवीर्यम्
स शिक्षितः कृतवैरस्तरस्वी दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान्
सदाऽत्यमर्षी न बलान्न शक्यो युद्धे जेतुं वासवेनापि साक्षात्
सुतेजसौ बलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फाल्गुनेन
श्येनौ यथा पक्षिपूगान्रुजन्तौ न शेषयेतां प्रविभज्य शत्रून्
एतद्बलं पूर्णमस्माकमेवं यत्सर्वं तान्प्राप्य नास्तीति मन्ये
तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः
सहामात्यस्सोमकानां प्रबर्हस्सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे
अजातशत्रुं प्रसहेत कोऽन्यो येषां स स्यादग्रणीर्वृष्णिसिंहः
सहोषितश्चरितार्थो वयस्थो मात्स्येयानामधिपो वै विराटः
स वै सपुत्रः पाण्डवार्थे च शश्वद्युधिष्ठिरे भक्त इति श्रुतं मे
अवरुद्धा रथिनः पञ्च सन्ति महेष्वासा भ्रातरः केकयेषु
केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्चानुवसन्ति पार्थान्
सर्वे च वीराः पृथिवीपतीन्द्रास्समानिताः पाण्डवार्थे निविष्टाः
शूरानहं भक्तिमतश्शृणोमि प्रीत्या युक्तान्संश्रितान्धर्मराजम्
गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजाश्च वृद्धाः
म्लेच्छाश्च नानायुधवीर्यवन्तस्समागताः पाण्डवार्थे निविष्टाः
पाण्ड्यश्च राजाऽमितवीर्यविक्रमो युधि प्रवीरैर्बहुभिस्समेतः
समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः
अस्त्रं द्रोणादर्जुनाद्वासुदेवात्कृपाद्भीष्माद्येन वृतं शृणोमि
यत्तश्च कृष्णप्रतिमप्रभावस्स सात्यकिः पाण्डवार्थे निविष्टः
उपाश्रिताश्चेदिकरूशकाश्च सर्वोद्योगैर्भूमिपालास्समेताः
तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम्
अस्तम्भनीयं युधि मन्यमानं ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम्
सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा सम्ममर्द
यशो मानं वर्धयन्पाण्डवानां पुराऽभिनच्छिशुपालं समीक्ष्य
यस्य सर्वे वर्धयन्ति स्म मानं करूशराजप्रमुखा नरेन्द्राः
तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम्
सम्प्राद्रवंश्चेदिपतिं विहाय सिंहार्दिता क्षुद्रमृगा इवान्ये
यस्तं प्रतीपस्तरसा प्रत्युदीयादाशंसमानो द्वैरथे वासुदेवम्
सोऽशेत कृष्णेन हतः परासुर्वातेनेवोन्मथितः कर्णिकारः
पराक्रमं मे यदवेदयन्त तेषामर्थे सञ्जय केशवस्य
अनुस्मरंस्तस्य कर्माणि विष्णोर्गावल्गणे नाधिगच्छामि शान्तिम्
न जातु ताञ्छत्रुरन्यस्सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः
प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ
न चेद्गच्छेत्सङ्गरं मन्दबुद्धिस्ताभ्यां लभेच्छर्म तदा सुतो मे
नो चेत्कुरून्सञ्जय निर्दहेतामिन्द्राविष्णू दैत्यसेनां यथैव
मतो हि मे शक्रसमो धनञ्जयस्सनातनो वृष्णिवीरश्च कृष्णः
धर्मारामो ह्रीनिषेधस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः
दुर्योधनेन निकृतो मनस्वी नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान्
नाहं तथा ह्यर्जुनाद्वासुदेवाद्भीमाद्वाऽपि यमयोर्वा बिभेमि
यथा राज्ञः क्रोधदीप्तस्य सूत वह्नेरहं भीततरस्सदैव
महातपा ब्रह्मचर्येण युक्तस्सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत्
तस्य क्रोधं सञ्जयाहं समीक्ष्य स्थाने जानन्भृशमस्म्यद्य भीतः
सङ्गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूनिवेशम्
अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम्
जनार्दनं चापि समेत्य सूत महामतिं वीर्यवतां वरिष्ठम्
अनामयं मद्वचनेन पृच्छेस्त्वं धार्तराष्ट्रः पाण्डवैश्शान्तिलिप्सुः
न तस्य किञ्चिद्वचनं न कुर्यात्कुन्तीपुत्रो वासुदेवस्य सूत
प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः
समानीतान्पाण्डवान्सृञ्जयांश्च जनार्दनं युयुधानं विराटम्
अनामयं मद्वचनेन पृच्छेस्सर्वांस्तथा द्रौपदेयांश्च पञ्च
यद्यत्तत्र प्राप्तकलं परेभ्यस्त्वं मन्येथा भारतानां हितं च
तत्तद्भाषेथास्सञ्जय राजमध्ये न मूर्च्छयेद्यत्र च युद्धहेतुः