वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः
सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्
भीष्मः-
दिष्ट्या कुशलिनस्सर्वे सह दामोदरेण ते
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः
दिष्ट्या न युद्धमनसः पाण्डवास्सह बान्धवैः
भवता सत्यमुक्तं तु सर्वमेतन्न संशयः
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः
असंशयं क्लेशितास्ते वने चैवं च पाण्डवाः
प्राप्ताश्च धर्मतस्सर्वं पितुर्धनमसंशयम्
किरीटि बलवाञ्छूरः कृतास्त्रश्च महाद्युतिः
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम्
अपि वज्रधरस्साक्षात्किमुतान्ये धनुर्भृतः
त्रयाणामपि लोकानां समर्थ इति मे मतिः
वैशम्पायनः-
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्
कर्णः-
न तन्न विदितं ब्रह्मल्ँलोके भूतेन केनचित्
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः
स तं समयमुत्सृज्य राज्यमिच्छति पैतृकम्
बलमाश्रित्य मत्स्यानां पाञ्चालानां युधिष्ठिरः
दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः
यथाप्रतिज्ञं तं कालं चरन्तु वनमाश्रिताः
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः
अधार्मिकीं त्विमां बुद्धिम्मौर्ख्यात्कुर्वन्तु केवलात्
अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम
भीष्मः-
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि
एक एव यदा पार्थष्षड्रथाञ्जितवान्युधि
विराटनगरे धीरः किं त्वं तत्रैव नागतः
बहुशो जीयमानस्य कर्म दृष्टं तदैव ते
न चेदिदं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्
दुर्योधनस्सहामात्यो विनङ्क्ष्यति न संशयः
वैशम्पायनः-
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत्
धृतराष्ट्रः-
अस्मद्धितमिदं वाक्यमुक्तवाञ्जाह्नवीसुतः
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम्
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम्
वैशम्पायनः-
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत्