वैशम्पायनः-
युयुधानस्ततो वीरस्सात्वतानां महारथः
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम्
तस्य योधा महावीर्या नानादेशसमागताः
नानाप्रहरणा वीराश्शोभयाञ्चक्रिरे बलम्
परश्वथैर्भिण्डिपालैश्शूलतोमरमुद्गरैः
परिघैर्यष्टिभिः पासैः करवालैश्च निर्मलैः
खड्गकार्मुकनिर्यूहैश्शरैश्च विविधैरपि
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम्
तस्य मेघप्रकाशस्य शस्त्रैस्तैश्शोभितस्य च
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः
अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम्
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली
धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः
मागधश्च जयत्सेनो जारासन्धिर्महाबलः
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत्
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत्
तथा माहिष्मतीवासो नीलो नीलायुधैस्सह
महीपालो महावीर्यो दक्षिणापथवासिभिः
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा
केकयाश्च नरव्याघ्रास्सोदराः पञ्च पार्थिवाः
संहर्षयन्तः कौन्तेयानक्षौहिण्या समागताः
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः
शोभिता पुरुषैश्शूरैः पुत्रैश्च सुमहारथैः
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः
पार्वतीयैर्महीपालैस्सहितः पाण्डवानयात्
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम्
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन्
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्
भगदत्तो महीपालस्सेनामक्षौहिणीं ददौ
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्
बभौ बलमनाधृष्यं कर्णिकारवनं यथा
तथा भूरिश्रवाश्शूरश्शल्यश्च कुरुनन्दन
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक्
कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैस्सह
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत्
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्
तेषामक्षौहिणी सेना बहुला विबभौ तदा
विधूयमानो वातेन बहुरूप इवाम्बुदः
सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा
उपाजगाम कौरव्यमक्षौहिण्या विशाम्पते
तस्य सेनासमावायश्शलभानामिवाबभौ
स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम्
इतस्ततस्तु सर्वेषां भूमिपानां महात्मनाम्
तिस्रोऽन्यास्समवर्तन्त वाहिन्यो भरतर्षभ
एवमेकादशावृत्तास्सेना दुर्योधनस्य ताः
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा
राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत
ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्
तथा रोहितकारण्यं मरुभूमिश्च केवला
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत
वारणावाटधानं च यामुनश्चैव पर्वतः
एष देशश्सुविस्तीर्णः प्रभूतधनधान्यवान्
बभूव कौरवेयाणां बलेन सुसमाकुलम्
तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः
यस्स पाञ्चालराजेन प्रेषितः कौरवान्प्रति