शल्यः-
ततश्शक्रस्स्तूयमानो गन्धर्वाप्सरसां गणैः
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम्
पावकस्सुमहातेजा महर्षिश्च बृहस्पतिः
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः
गन्धर्वैरप्सरोभिश्च प्रयातस्त्रिदिवं प्रभुः
स समेत्य महेन्द्राण्या देवराजश्शतक्रतुः
मुदा परमया युक्तः पालयामास देवराट्
ततस्स भगवांस्तत्र अङ्गिरास्समदृश्यत
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्
ततस्तु भगवानिन्द्रः प्रहृष्टस्समपद्यत
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा
इन्द्रः-
अथर्वाङ्गिरसो नाम वेदेऽस्मिन्वै भविष्यति
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे
शल्यः-
एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा
व्यसर्जयन्महाराज देवराजश्शतक्रतुः
सम्पूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान्
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया
अज्ञातवासश्च कृतश्शत्रूणां वधकाङ्क्षया
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत
वृत्रं हत्वा यथा प्राप्तश्शक्रः कौरवनन्दन
दुराचारश्च नहुषो ब्रह्वद्विट् पापचेतनः
अगस्त्यशापाभिहतो विनष्टश्शाश्वतीस्समाः
एवं तव दुरात्मानश्शत्रवश्शत्रुसूदन
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः
ततस्सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्
भ्रातृभिस्सहितो वीर द्रौपद्या च सहानया
उपाख्यानमिदं शक्रविजयं वेदसम्मितम्
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता
तस्मात्संश्रावयामि त्वां विजयं जयतां वर
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर
क्षत्रियाणामभावोयं युधिष्ठिर महात्मनाम्
दुर्योधनापराधेन भीमार्जुनबलेन च
आख्यानमिन्द्रविजयं य इदं नियतः पठेत्
धूतपाप्मा जितस्वर्गः परत्रेह च मोदते
न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः
नापदं प्राप्नुयात्काञ्चिद्दीर्घमायुश्च विन्दति
सर्वत्र जयमाप्नोति न कदाचित्पराजयम्
वैशम्पायनः-
एवमाश्वासितो राजा शल्येन भरतर्षभ
पूजयामास विधिवच्छल्यं धर्मभृतां वरः
श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः
युधिष्ठिरः-
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः
तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवे
शल्यः-
एवमेतत्करिष्यामि यथा मां सम्प्रभाषसे
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव
वैशम्पायनः-
ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा
जगाम सबलश्श्रीमान्दुर्योधनमरिन्दमः