शल्यः-
क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः
अब्रुवन्देवराजानं नहुषं घोरदर्शनम्
देवाः-
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो
त्रस्तं सासुरगन्धर्वं सकिन्नरमहोरगम्
जहि क्रोधमिमं साधो न कुप्यन्ति भवद्विधाः
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर
निवर्तय मनः पापात्परदाराभिमर्शनात्
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय
शल्यः-
एवमुक्तो न जग्राह तद्वचः कालचोदितः
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः
नहुषः-
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी
पत्यौ जीवति सेन्द्रेण स च किं न निवारितः
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा
वैधर्म्याण्यपथा चैव स वः कस्मान्न वारितः
उपतिष्ठतु देवी मामेतदस्या हितं परम्
युष्माकं च सदा देवाश्शिवमेवं भविष्यति
देवाः-
इन्द्राणीमानयिष्यामो सुराधिप यदीच्छसि
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर
शल्यः-
इत्युक्त्वा तं तदा देवा ऋषिभिस्सह भारत
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः
देवाः-
जानीमश्शरणं प्राप्तामिन्द्राणीं तव वेश्मनि
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम
ते त्वां देवास्सगन्धर्वा ऋषयश्च महाद्युते
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः
वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी
शल्यः-
एवमुक्ता तु सा देवी बाष्पमुत्सृज्य सस्वनम्
उवाच रुदती दीना बृहस्पतिमिदं वचः
इन्द्राणी-
नाहमिच्छामि नहुषं पतिं देवर्षिसत्तम
शरणागतास्मि ते ब्रहंस्त्रायस्व महतो भयात्
बृहस्पतिः-
शरणागतं न त्यजेयमिन्द्राणि मम निश्चयः
धर्मज्ञां सत्यशीलां च न त्यजेयमनिन्दिते
नाकार्यं कर्तुमिच्छामि ब्राह्मणस्सन्विशेषतः
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम्
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम्
न तस्य बीजं रोहति रोहकाले न चास्य वर्षं वर्षति वर्षकाले
भीतं प्रपन्नं प्रददाति शत्रवे न स त्रातारं लभते त्राणमिच्छन्
मोघमन्नं विन्दति चाप्यचेतास्स्वर्गाल्लोकाद्भ्रश्यति भ्रष्टचेष्टः
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः
प्रमीयते चास्य प्रजा ह्यकाले सदा विवादं पितरोऽस्य कुर्वते
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्
एतदेवं विजानन्वै न दास्यामि शचीमिमाम्
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम्
शल्यः-
अस्या हितं भवेद्यच्च मम चापि हितं भवेत्
क्रियतां तत्सुरश्रेष्ठा नहि दास्याम्यहं शचीम्
अथ देवाः सगन्धर्वा गुरुमाहुरिदं वचः
देवाः-
कथं सुनीतं नु भवेन्मन्त्रयस्व बृहस्पते
बृहस्पतिः-
नहुषं याचतां देवी किञ्चित्कालान्तरं शुभा
हितमेतद्धि वै मन्ये तथाऽस्माकं भविष्यति
बहुविघ्नकरः कालः कालस्तं घातयिष्यति
गर्वितो बलवांश्चापि नहुषो वरसंश्रयात्
शल्यः-
देवाः-
ततस्तेन तथोक्ते तु प्रीता देवास्तथाब्रुवन्
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वं दिवौकसाम्
शल्यः-
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्
ततस्समस्ता इन्द्राणीं देवाश्चाग्निपुरोगमाः
देवाः-
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम्
एकपत्न्यसि सध्वी च गच्छ त्वं नहुषं प्रति
क्षिप्रं त्वामभिकामश्च विनशिष्यति पापकृत्
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति
शल्यः-
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम्
समहृष्यत दुष्टात्मा कामोपहतचेतनः