शल्यः-
आख्यानमुत्तममिदमितिहासं पुरातनम्
श्रुणु मे भ्रातृभिस्सार्धं सर्वशत्रुजयावहम्
वृत्रभूतेषु लोकेषु भयमिन्द्रमुपागमत्
अथेन्द्रो हि महातेजास्समेत्य सह दैवतैः
आमन्त्रयत तेजस्वी वृत्रस्य वधकारणात्
इन्द्रः-
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्
न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत्
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम्
कथं कुर्याम भद्रं वो दुर्धर्षस्स हि मे मतः
तेजस्वी च महात्मा च युद्धे चामितविक्रमः
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम्
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः
विष्णोः क्षयमुपागम्य समेत्य च महात्मना
तेन सम्मन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः
शल्यः-
एवमुक्ते मघवता देवास्सर्षिगणास्तदा
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम्
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः
देवाः-
त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा
अमृतं च हृतं विष्णो दैत्याश्च निहता रणे
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः
त्वं प्रभुस्सर्वलोकानां त्वया सर्वमिदं ततम्
त्वं हि देवो महादेस्सर्वलोकनमस्कृतः
गतिर्भवसि देवानां सेन्द्राणाममरोत्तम
जगद्व्याप्तमिदं सर्वं वृत्रेणारिनिषूदन
विष्णुः-
अशक्यकरणीयं मे भवतां हितमुत्तमम्
तस्मादुपायं वक्ष्यामि यथाऽसौ न भविष्यति
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ
भविष्यति जयो देवाश्शक्रस्य मम तेजसा
अदृश्यश्च प्रवेक्ष्यामि वज्रमेवायुधोत्तमम्
गच्छध्वमृषिभिस्सार्धं गन्धर्वैश्च सुरोत्तमाः
वृत्रस्य सह शक्रेण सन्धिं कुरुत मा चिरम्
शल्यः-
एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तदा
ययुस्समेत्य बिभुना शक्रं कृत्वा पुरस्सरम्
समीपमेत्य च तदा सर्व एव दिवौकसः
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ तथा
ददृशुस्ते तपोवृद्धं शक्रेण सह देवताः
ऋषयश्च ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः
ऋषयः-
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय
न च शक्नोषि निर्जेषुं वासवं भूरिविक्रमम्
युध्यतोश्चापि वां कालोऽप्यतीतस्सुमहानिह
पीड्यन्ते च प्रजास्सर्वास्सदेवासुरमानुषाः
सख्यं भवतु ते पुत्र शक्रेण सह नित्यदा
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्
शल्यः-
ऋषिवाक्यं निशम्याथ वृत्रस्स तु महाबलः
उवाच तानृषीन्सर्वान्प्रणम्य शिरसाऽसुरः
वृत्रः-
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः
यद्ब्रूथ तच्छ्रुतं सर्वं ममापि श्रृणुतानघाः
सन्धिः कथं वै भविता मम शक्रस्य चोभयोः
तेजसोर्ह्यावयोर्देवास्सख्यं वै भविता कथम्
ऋषयः-
सकृत्सतां सङ्गतमीप्सितव्यं ततः परं भविता भव्यमेव
नातिक्रामेत्सत्पुरुषेण सङ्गतं तस्मात्सतां सङ्गतमीप्सितव्यम्
दृढं सतां सङ्गतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीराः
महार्थवत्सत्पुरुषेण सङ्गतं तस्मात्सतो न जिघांसेत धीरः
इन्द्रस्सतां सम्मतश्च निवासश्च महात्मनाम्
सत्यवादी ह्यदीनश्च धर्मवित्सूक्ष्मनिश्चयः
तेन ते सह शक्रेण सन्धिर्भवतु नित्यदा
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा
शल्यः-
वृत्रः-
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः
अवश्यं भगवन्तो मे माननीयास्तपस्विनः
ब्रवीमि यदहं देवास्तत्सर्वं क्रियते यदि
ततस्सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा
न शस्त्रेण नचास्त्रेण न दिवा नापि वा निशि
वध्यो भवेयं विप्रेन्द्राश्शक्रस्य सह दैवतैः
एवं मे रोचते सन्धिश्शक्रस्य सह नित्यदा
शल्यः-
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ
एवं वृत्ते तु सन्धाने ततः प्रमुदितोऽभवत्
ततस्सन्धिं मिथः कृत्वा ऋषयो दीप्ततेजसः
शक्रस्य सह वृत्रेण पुनर्जग्मुर्यथागतम्
अथ दीर्घस्य कालस्य शक्रस्सञ्चिन्त्य भारत
यत्तस्सदाऽभवच्चापि क्रुद्धोऽमर्षसमन्वितः
वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत्
अभिसन्धिर्महेन्द्रस्य सन्धिकर्मणि यः कृतः
ऋषिभिस्त्वीरितं यच्च महेन्द्रस्तदनुस्मरन्
छिद्रान्वेषी समुद्विग्नस्सदा वसति देवराट्
स कदाचित्समुद्रान्ते समपश्यन्महासुरम्
सन्ध्याकाल उपावृत्ते मुहूर्ते चातिदारुणे
ततस्सञ्चिन्त्य मघवान्वरदानं महात्मनः
सन्ध्येयं वर्तते रौद्रा न रात्रिर्न च वासरः
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम्
महाबलं महाकायं न मे श्रेयो भविष्यति
एवं सञ्चिन्तयन्नेव शक्रो विष्णुमनुस्मरन्
अथ फेनं तदाऽपश्यत्समुद्रे पर्वतोपमम्
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा
एनं क्षेपामि वृत्रस्य क्षणादेव नशिष्यति
जग्राह च स तं फेनमिन्द्रो वृत्रनिबर्हणम्
निगृह्य शक्रो बाहुभ्यां प्राहिणोद्वृत्रमस्तके
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत्
निहते तु ततो वृत्रे दिशो वितिमिराऽभवन्
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तथा
ततो देवास्सगन्धर्वा यक्षरक्षोमहोरगाः
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैस्स्तवैः
नमस्कृतस्सर्वभूतैस्सर्वभूतान्यसान्त्वयन्
हत्वा शत्रुं प्रहृष्टात्मा वासवः सह दैवतैः
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित्
ततो हते महावीर्ये वृत्रे देवभयङ्करे
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः
त्रैशीर्षयाऽभिभूतश्च स पूर्वं ब्रह्महत्यया
महादेवस्य भूतैश्च स पुनर्ब्रह्महा इति
आक्रुष्टो निर्भयैर्भूयः प्रार्थितो बलवृत्रहा
सोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः
न प्राज्ञायत देवेन्द्रस्त्वभिभूतस्सकल्मषैः
प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्या भयार्दिते
भूमिः प्रध्वस्तसङ्काशा निर्वृक्षा शुष्ककानना
विच्छिन्नस्रोतसो नद्यस्सरांस्यनुदकानि च
सङ्क्षोभश्चापि सत्वानामनावृष्टिकृतोऽभवत्
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः
अराजकं जगत्सर्वमभिभूतमुपद्रवैः
ततो भीताऽभवन्देवाः को नो राजा भवेदिति
दिवि देवर्षयश्चापि देवराजविनाकृताः
न स्म कश्चन देवानां राज्ये वै कुरुते मतिम्