युधिष्ठिरः-
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना
दुःखं प्राप्तं महद्घोरमेतदिच्छामि वेदितुम्
शल्यः-
शृणु राजन्पुरावृत्तमितिहासं पुरातनम्
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत्
ऐन्द्रं सम्प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः
तैस्त्रिभिर्वदनैर्घोरैस्सूर्येन्दुज्वलनोपमैः
वेदानेकेन सोऽधीते सुरामेकेन चापिबत्
एकेन च दिशस्सर्वाः पिबन्निव निरीक्षते
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः
तप्यते स्म तपस्तीव्रं सुदुश्चरमरिन्दम
तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति
कथं सज्जेत भोगेषु न च तप्येन्महत्तपः
विवर्धमानस्त्रिशिरास्सर्वं हि भुवनं ग्रसेत्
इति सञ्चिन्त्य बहुधा बुद्धिमान्भरतर्षभ
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने
इन्द्रः-
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम्
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत मा चिरम्
शृङ्गारवेषास्सुश्रोण्यो हारैर्युक्ता मनोहरैः
हावभावसमायुक्तास्सर्वास्सौन्दर्यशोभिताः
प्रलोभयत भद्रं वश्शमयध्वं भयं मम
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः
भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः
अप्सरसः-
तथा यत्नं करिष्यामश्शक्र तस्य प्रलोभने
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः
तं प्रलोभयितुं देव गच्छामस्सहिता वयम्
शल्यः-
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः
नृत्तं सन्दर्शयामासुस्तथैवाङ्गेषु सौष्ठवम्
नाभ्यगच्छत्प्रहर्षं तास्स पश्यन्सुमहातपाः
इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः
तास्तु यत्नं परं कृत्वा पुनश्शक्रमुपागमन्
कृताञ्जलिपुटास्सर्वा देवराजमथाब्रुवन्
न स शक्यस्सुदुर्धर्षो धैर्याच्चालयितुं प्रभो
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम्
सम्पूज्याप्सरसश्शक्रो विसृज्य च महामतिः
चिन्तयामास तस्यैव वधोपायं महात्मनः
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान्
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत्
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्
अथ वैश्वानरनिभं घोररूपं भयावहम्
मुमोच वज्रं सङ्क्रुद्धश्शक्रस्त्रिशिरसं प्रति
स पपात हतस्तेन वज्रेण दृढमाहतः
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले
तं तु वज्राहतं दृष्ट्वा शयानमचलोपमम्
न शर्म लेभे देवेन्द्रो दीपिततस्तस्य तेजसा।
हतोऽपि दीप्ततेजास्स जीवन्निव हि दृश्यते
शिरांसि तस्याजायन्त त्रीण्येव शकुनास्त्रयः
तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः
विश्वरूपशिरांस्येव जायन्ते तानि भारत
घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि च
ततोऽतिभीतो रूपात्तु शक्र आस्ते विचारयन्
अथाजगाम परशुं स्कन्धेनादाय वर्धकी
तदरण्यं महाराज यत्रास्तेऽसौ निपातितः
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः
इन्द्रः-
परश्वथेन तीक्ष्णन शिरांस्यस्य निकृन्त वै
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम
तक्षा-
महास्कन्धो भृशं ह्येष परशुर्न भविष्यति
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम्
इन्द्रः-
मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति
तक्षा-
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे
इन्द्रः-
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते
कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय
मया हि निहतश्शेते त्रिशिरास्त्वं च विद्धि वै
शल्यः-
स प्रह्वः प्राञ्जलिर्भूत्वा इदं वचनमब्रवीत्
तक्षा-
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते
इन्द्रः-
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम्
शत्रुरेष महावीर्यो वज्रेण निहतो मया
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम्
शल्यः-
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा
निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः
येन वेदानधीते स्म पिबते सोममेव च
तस्माद्वक्त्रार्द्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः
येन सर्वा दिशो राजन्पिबन्निव निरीक्षते
तस्माद्वक्त्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा
कलविङ्कास्समुत्पेतुश्श्येनाश्च भरतर्षभ
ततस्तेषु निकृत्तेषु विज्वरो मघवानथ
तक्ष्णे तथा वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः
जगाम त्रिदिवं देवस्तक्षाऽपि स्वगृहान्ययौ
तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित्
अथैनं नाभिजानन्ति वर्षमेकं तथागतम्
अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो
तमाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति
तत इन्द्रो व्रतं घोरमाचरत्पाकशासनः
तपसा च सुसंयुक्तस्सह देवैर्मरुद्गणैः
समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च
विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत्
वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च
वनस्पतिभ्यस्स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम्
ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः
इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः
मेने कृतार्थमात्मानं हत्वा शत्रून्सुरारिहा
त्वष्टा प्रजापतिश्श्रुत्वा शक्रेणाथ सुतं हतम्
क्रोधसंरक्तनयन इदं वचनमब्रवीत्
त्वष्टा-
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्
विनाऽपराधेन यतः पुत्रं हिंसितवान्मम
तस्मादिन्द्रविनाशाय वृत्रमुत्पादयाम्यहम्
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत्
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः
अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम
सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः
किं करोमीति चोवाच कालसूर्य इवोदितः
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः
ग्रस्ता लिकाश्च वृत्रेण सर्वे भरतसत्तम
त्वष्टस्तेजोविवृद्धेन वृत्रेण सुमहात्मना
सर्वगन्धेन्द्रियरसा हृता भारत तेन वै
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
हृतमेतन्महाराज वृत्रेण सुमहात्मना
ततो युद्धं समभवद्वृत्रवासवयोर्महत्
सङ्क्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम
ततो जग्राह देवेन्द्रं वृत्रो वीरश्शतक्रतुम्
अपावृत्याक्षिपद्वक्त्रे शक्रं कोपसमन्वितः
ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदिवेश्वराः
असृजंस्ते महासत्वा जृम्भिकां वृत्रनाशिनीम्
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्
स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलसूदनः
ततःप्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता
जहृषुश्च सुरास्सर्वे शक्रं दृष्ट्वा विनिस्सृतम्
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः
त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत
निवृत्ते च तदा देवा विषादमगमन्पनः
समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः
अमन्त्रयन्त ते सर्वे मुनिभिस्सह भारत
किं कार्यमिति वै राजन्विचिन्त्य भयमोहिताः
जग्मुस्सर्वे महात्मानं मनोभिर्विष्णुमव्ययम्
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः