वैशम्पायनः-
शल्यश्श्रुत्वा तु दूतानां सैन्येन महता वृतः
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम्
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः
अक्षौहिणीपती राजन्महावीर्यपराक्रमः
विचित्रकवचाश्शूरा विचित्रध्वजकार्मुकाः
विचित्राभरणास्सर्वे विचित्ररथवाहनाः
विचित्रस्रग्धरास्सर्वे विचित्राम्बरभूषणाः
स्वदेशवेषाभरणा वीराश्शतसहस्रशः
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम्
शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः
ततो दुर्योधनश्श्रुत्वा महात्मानं महारथम्
उपायान्तमभिद्रुत्य स्वयमानर्च भरत
कारयामास पूजार्थं तस्य दुर्योधनस्सभाः
रमणीयेषु देशेषु रत्नचित्रास्स्वलङ्कृताः
शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम्
कूपाश्च विविधाकारा मनोहर्षविवर्धनाः
वाप्यश्च विविधाकारा औदकानि गृहाणि च
स तास्सभास्समासाद्य पूज्यमानो यथाऽमरः
दुर्योधनस्य सचिवैर्देशे देशे यथाविधि
आजगाम सभामन्यां देवावसथवर्चसम्
स तत्र विभवैर्युक्तः कल्याणैरतिमानुषैः
मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम्
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः
शल्यः-
युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुस्सभा इमाः
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः
प्रदेयमेभ्यो दास्यामि कुन्तीपुत्रप्रियेप्सया
वैशम्पायनः-
ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा
दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः
सम्प्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम्
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम्
तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम्
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो व्रियतामिति
दुर्योधनः-
सत्यवाग्भव कल्याण वरो वै मम दीयताम्
सर्वसेनाप्रणेता वै भवान्भवितुमर्हति
यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम्
अनुमान्यं च पाल्यं च भक्तं च भज मां विभो
शल्यः-
एवं ददामि ते प्रीत एवमेतद्भविष्यति
एवमेतन्महाराज यथा वदसि पार्थिव
वैशम्पायनः-
कृतमित्यब्रवीच्छल्यः किमन्यद्व्रियतामिति
कृतमित्येव गान्धारिः प्रत्युवाच पुनःपुनः
शल्यः-
गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ
अहं गमिष्ये द्रष्टुं वै युधिष्ठिरमरिन्दमम्
दृष्ट्वा युधिष्ठिरं राजन्पुनरेष्ये नराधिप
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः
दुर्योधनः-
क्षिप्रमागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव
त्वदधीनास्स्म राजेन्द्र वरदानं स्मरस्व नः
शल्यः-
क्षिप्रमेष्यामि भद्रं ते गच्छ त्वं स्वपुरं नृप
दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे
वैशम्पायनः-
पर्यष्वजेतामन्योन्यं शल्यदुर्योधनावुभौ
स तदा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम्
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत्
उपप्लाव्यं स गत्वा तु स्कन्धावारं प्रविश्य च
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह
चिरात्तु दृष्ट्वा राजानं मातुलं समितिञ्जयम्
आसनेभ्यस्समुत्पेतुस्सर्वे सहयुधिष्ठिराः
तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ
द्रौपदी च सुभद्रा च अभिमन्युश्च भारत
युधिष्ठिरः-
समेत्य च महापाहुं शल्यं पाण्डुसुतस्तदा
कृताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत्
स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम्
वैशम्पायनः-
ततो न्यषीदच्छल्यश्च काञ्चने परमासने
तत्र पाद्यमथार्घ्यं च न्यवेदयत पाण्डवः
निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत
कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम्
स तैः परिवृतस्सर्वैः पाण्डवैर्धर्मचारिभिः
आसने चोपविष्टस्स शल्यः पार्थमथाब्रवीत्
प्रीत्या परमया युक्तस्समाश्लिष्य युधिष्ठिरम्
शल्यः-
कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन
अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर
सुदुष्करं कृतं राजन्निर्जने वसता वने
भ्रातृभिस्सह कौन्तेय कृष्णया चानयाऽनघ
अज्ञातवासं घोरं च वसता दुष्करं कृतम्
दुःखमेव कुतस्सौख्यं राज्यभ्रष्टस्य भारत
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै
अवाप्स्यसि फलं राजन्हत्वा शत्रून्परन्तप
विदितं ते महाराज लोकतन्त्रं नराधिप
तस्माल्लोककृतं किञ्चित्तव तात न विद्यते
गजर्षीणां पुराणानां मार्गमन्विच्छ भारत
दाने सत्ये तपसि च तव बुद्धिर्युधिष्ठिर
क्षमा दमश्च सत्यं च अहिंसा च नृपोत्तम
मुदितश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठिते
मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः
धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः
सर्वं जगदिदं तात विदितं ते परन्तप
दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ
दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम्
निस्तीर्णदुष्करं राजंस्त्वां धर्मनिचयं प्रभो
वैशम्पायनः-
ततोऽस्याकथयद्राजा दुर्योधनसमागमम्
तच्च शुश्रूषितं सर्वं वरदानं च भारत
युधिष्ठिरः-
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम्
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम
मम त्ववेक्षया वीर शृणु विज्ञापयामि ते
स्पर्धते हि सदा कर्णः पार्थेन रणमूर्धनि
भवानिह महाराज वासुदेवसमो युधि
कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम
वासुदेवेन सारथ्यं कार्यं पार्थस्य मातुल
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः
तत्र पाल्योऽर्जुनो राजन्यदि मे प्रियमिच्छसि
तेजोवधश्च ते कार्यस्सौतेरस्मज्जयावहः
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल
शल्यः-
श्रृणु पाण्डव भद्रं ते वधोपायं दुरात्मनः
कर्णस्य सूतपुत्रस्य नित्यं युद्धाभिनन्दिनः
तेजोवधनिमित्तं हि सूतपुत्रस्य संयुगे
अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम्
वासुदेवेन हि समं नित्यं मां स हि मन्यते
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः
ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे
अहं तथा भविष्यामि सारथी रणमूर्धनि
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम्
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते हितम्
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते
द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम्
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर
देवैरपि हि दुःखानि प्राप्तानि जगतीपते
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना
अनुभूतं महद्दुःखं देवराजेन भारत