द्रुपदः-
भूतानां प्राणिनश्श्रेष्ठाः प्राणिनां बुद्धिजीविनः
बुद्धिमत्सु नराश्श्रेष्ठा नरेष्वपि द्विजातयः
द्विजेषु वैद्याश्श्रेयांसो वैद्येषु कृतबुद्धयः
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः
स भवान्कृतबुद्धीनां प्रधान इति मे मतिः
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च
प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च
विदितं चापि ते सर्वं यथावृत्तस्स कौरवः
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत्
अनक्षज्ञं मताक्षस्सन्क्षत्रवृत्ते स्थितं शुचिम्
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम्
न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम्
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्
भीष्मद्रोणकृपादीनां भेदं सञ्जनयिष्यति
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च
पुनरेकग्र्यकरणं तेषां कर्म भविष्यति
एतस्मिन्नन्तरे पार्थास्सुखमेकाग्रबुद्धयः
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम्
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि
न तथा ते करिष्यन्ति सेनाकर्म न संशयः
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते
सङ्गत्य धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव
स भवान्धर्मयुक्तश्च स्थविरश्च विशेषवित्
कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन्
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम्
विभेत्स्यति मनांस्येषामिति मे नात्र संशयः
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित्
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये
वैशम्पायनः-
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना
पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम्