श्रीबलदेवः-
श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च
अजातशत्रोश्च हितं च युक्तं दुर्योधनस्यापि तथैव राज्ञः
अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते
प्रदाय चार्धं धृतराष्ट्रपुत्रस्सुखी सहास्माभिरतीव मोदेत्
लब्ध्वा हि राज्यं पुरुषप्रवीरास्सम्यक्प्रवृत्तेषु परेषु चैव
ध्रुवं प्रशान्तास्सुखमावसेयुस्तेषां प्रशान्तिश्च हितं प्रजानाम्
दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य
प्रियं च मे स्याद्यदि तत्र कश्चिद्व्रजेच्छमार्थं कुरुपाण्डवानाम्
स भीष्ममामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम्
द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च ससूतपुत्रम्
सर्वे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः
स्थिताश्च धर्मेषु यथा स्वकेषु लोकप्रवीराश्श्रुतशीलवृद्धाः
एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च सङ्गतेषु
ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात्
सर्वास्ववस्थासु च ते न कोप्या ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः
प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रसक्तस्य हृतं च राज्यम्
निवार्यमाणश्च कुरुप्रवीरस्सर्वैस्सुहृद्भिर्ह्ययमप्यतज्ज्ञः
गान्धारराजस्य सुतं मताक्षं समाह्वयद्देवितुमाजमीढः
दुरोदरास्तत्र सहस्रशोऽन्ये युधिष्ठिरो यान्विषहेत जेतुम्
उत्सृज्य तान्सौबलमेव चायं समाह्वयत्तेन जितोऽक्षवत्याम्
स दीव्यमानः प्रतिदीव्यतैनमक्षेषु नित्यं तु पराङ्मुखेषु
संरज्यमानो विजितः प्रसह्य तत्रापराधश्शकुनेर्न कश्चित्
तस्मात्प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम्
तथा हि शक्यो धृतराष्ट्रपुत्रस्स्वार्थे नियोक्तुं पुरुषेण तेन
न युद्धमाकाङ्क्षत तेन राज्ञा साम्नैव दुर्योधनमाश्वसध्वम्
साम्ना हितार्थोऽर्थकरो हि लोके युद्धेन योऽर्थोऽपि तथा न सोऽर्थः
वैशम्पायनः-
एवं ब्रुवत्येव यदुप्रवीरे शिनिप्रवीरस्सहसोत्पपात
तस्यापि वाक्यं परिनिन्द्य तत्र समाददे वाक्यमिदं समन्युः