वैशम्पायनः-
कृत्वा विवाहं तु कुरुप्रवीरास्तदाऽभिमन्योर्मुदितास्सपक्षाः
विश्रम्य रात्रावुषसि प्रतीतास्सभां विराटस्य ततोऽभिजग्मुः
सभा तु सा मत्स्यपतेस्समृद्धा मणिप्रवेकोत्तमरत्नचित्रा
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः
अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ
वृद्धौ च मान्यौ पृथिवीपतीनां पित्रा समं रामजनार्दनौ च
पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरस्सहरौहिणेयः
मात्स्यस्य राज्ञस्तु सुसन्निकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च
सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रैश्च सहाभिमन्युः
सर्वे च शूराः पितृभिस्समाना वीर्येण रूपेण तथा बलेन
उपाविशन्द्रौपदेयाः कुमारास्सुवर्णचित्रेषु वरासनेषु
तत्रोपविष्टेषु वरासनेषु विभ्राजमानाम्बरभूषणेषु
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता
ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः
कथान्तमासाद्य जनार्दनेन सङ्घट्टिताः पाण्डवकार्यहेतोः
ते राजसिंहास्सहिता ह्यश्रृण्वन्वाक्यं महार्थं च महोदयं च
श्रीभगवान्-
सर्वैर्भवद्भिर्विदितं यथाऽयं युधिष्ठिरस्सौबलेनाक्षवत्याम्
जितो निकृत्याऽपहृतं च राज्यं पनः प्रवासे समयः कृतश्च
शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैस्सत्यरथैर्यथावत्
पाण्डोस्सुतैस्तद्व्रतमुग्ररूपं वर्षाणि षट् सप्त च चीर्णमग्र्यैः
त्रयोदशं दुश्चरमेव वर्षमज्ञायमानैर्भवतां समीपे
क्लेशानसह्यांश्च तितिक्षमाणैर्यथोषितं तद्विदितं च सर्वम्
एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात्
तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च
अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः
धर्मार्थयुक्तं तु महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत्
पित्र्यं हि राज्यं विदितं नृपाणां यथाऽपकृष्टं धृतराष्ट्रपुत्रैः
मिथ्योपचारेण यथा ह्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम्
न चापि पार्थो विजितो रणे तैस्स्वतेजसा वै धृतराष्ट्रपुत्रैः
तथाऽपि राजा सहितस्सुहृद्भिरभीप्सतेऽनामयमेव तेषाम्
यत्तु स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्निपीड्य
तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च
बालास्त्विमे तैर्विविधैरुपायैस्सम्प्रार्थिता हन्तुममित्रसङ्घैः
राज्यं जिहीर्षद्भिरसद्भिरुग्रैस्सर्वं च तद्वो विदितं यथावत्
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मात्मतां चापि युधिष्ठिरस्य
सम्बन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्व
इमे च सत्ये निरतास्सदैव तं पालयित्वा समयं यथावत्
अतोऽन्यथा तैरुपचर्यमाणा हन्युस्समेतान्धृतराष्ट्रपुत्रान्
तैर्विप्रकारं च निशाम्य राज्ये सुहृज्जनास्तान्परिवारयेयुः
युद्धेन बाधेयुरिमांस्तथैवं तैर्वध्यमाना युधि तांश्च हन्युः
तथाऽपि नेमेऽल्पतयाऽसमर्थास्तेषां जयायेति मतिर्भवेद्वः
समेत्य सर्वे सहितास्सुहृद्भिस्तेषां विनाशाय यतेयुरेव
दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति
अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः
तस्मादितो गच्छतु धर्मशीलश्शुचिः कुलीनः पुरुषोऽप्रमत्तः
दूतस्समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य
वैशम्पायनः-
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च
समाददे वाक्यमधोक्षजस्य सम्पूज्य वाक्यं तदतीव रामः