वैशम्पायनः-
विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम्
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवामहे
राजंस्त्वमसि सङ्ग्रामे गृहीतस्तेन मोक्षितः
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया
कुरवो निर्जिता यस्मात्सङ्ग्रामेऽमिततेजसः
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः
अर्घार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम्
पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम्
प्रसादयाम्यहं तत्र सह पार्थैर्महात्मभिः
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम्
कुले च जन्म महति फल्गुनस्य च विक्रमम्
वैशम्पायनः-
उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः
उत्तरं चापि सम्प्रेक्ष्य प्राप्तकालमचिन्तयत्
ततो विराटः सामात्यः सहपुत्रः सबान्धवः
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः
विराटः-
प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः
शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव
वयं च सर्वे सामात्या भवन्तं शरणं गताः
वैशम्पायनः-
तं धर्मराजः पतितं महीतले सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम्
उवाच वाक्यं परलोकदर्शनः प्रनष्टमन्युर्गतशोकमत्सरः
न ते भयं पार्थिव विद्यते मयि प्रतीतरूपोस्म्यनुचिन्त्य मानसम्
एतत्त्वया सम्यगिहोपपादितं द्विजैरमात्यैः सदृशैश्च पण्डितैः
इमां च कन्यां समलङ्कृतां भृशं समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव
न चैव किञ्चित्पश्यामि विकृतं ते नराधिप
वैशम्पायनः-
ततो विराटः परमाभितुष्टः समेत्य राज्ञा समयं चकार
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा