जनमेजयः-
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशेश्वराः
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ
वैशम्पायनः-
वासवप्रमुखास्सर्वे देवास्सर्षिपुरोगमाः
यक्षगन्धर्वसङ्घाश्च गणा ह्यप्सरसां तथा
युद्धं त्वमानुषं दृष्ट्वा कुरूणां फल्गुनस्य च
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम्
अस्त्राणामथ दिव्यानां प्रयोगानथ सङ्ग्रहान्
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः
असङ्गगतिना तेन विमानेनाशुगामिना
प्रतिजग्मुरसङ्गेन त्रिदिवं च दिवौकसः
कुरवोऽर्जुनबाणैश्च ताडिताश्शरविक्षताः
कुरूनभिमुखा यातास्समग्रबलवाहनाः
विराटनगराच्चैव गजाश्वरथसङ्कुलाः
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः
विराटप्रहिता सेना नगराच्छीघ्रयायिनी
उत्तरं सह सूतेन प्रत्ययात्तमनन्तरम्
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्वरथसङ्कुले
प्रहर्षस्स्त्रीकुमाराणां तुमुलस्समपद्यत
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम्
सैन्यध्वजं निशम्याथ वैराटिं समभाषत
अर्जुनः-
नगरे तुमुलश्शब्दो रेणुश्चाक्रमते नभः
किन्नु खल्वपयातास्ते नगरं कुरवो गताः
ते चैव निर्जिताऽस्माभिर्महेष्वासास्सुतेजसः
आमुञ्च कवचं वीर चोदयस्व च वाजिनः
जवेनाभिप्रपद्यस्व विराटनगरं प्रति
न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम्
ध्वजं वा दर्शयिष्यामि कदाचित्स्वजनो भवेत्
उत्तरः-
सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलङ्कृताः
कन्या रथेषु दृश्यन्ते योधा विविधवाससः
उत्तरामत्र पश्यामि सखीभिः परिवारिताम्
अनीकिनि प्रकाशन्ते हस्तिनोऽश्वाश्च वर्मिताः
पादाता रथिनश्चैव बहवो न च शस्त्रिणः
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा
वैशम्पायनः-
ततश्शीघ्रं समासाद्य उत्तरस्वजनो विभुः
परस्परममित्रघ्नस्सस्वजे तं समागतः
प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः
जनाः-
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नला
दिष्ट्या सङ्ग्राममागम्य भयं तव न किञ्चन
उत्तरः-
अजैषीदेष ताञ्जिष्णुः कुरूनेकरथो रणे
एतस्य बाहुवीर्यं तद्येन गावो जिता मया
कुरवो निर्जिता यस्मात्सङ्ग्रामेऽमिततेजसः
अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम्
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत्
वैशम्पायनः-
उत्तरस्य वचश्श्रुत्वा शंसमानस्य चार्जुनम्
चोदिता राजपुत्रेण जयं मङ्गलवादिनः
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसम्भृतैः
कन्याः पार्थममित्रघ्नं किरन्त्यस्समपूजयन्
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैश्शुभैः
सम्पूज्यमानो लोकेन नगरद्वारमागमत्
भेर्यश्च तूर्याणि च वेणवश्च विचित्रवेषाः प्रमदाजनाश्च
विराटराजस्य महाबलस्य निष्क्रम्य भूमिञ्जयमभ्यनन्दन्
प्रशस्यमानस्तु जयेन तत्र पुत्रो विराटस्य न हृष्यति स्म
सम्भाष्यमाणस्तु जयेन तेन सोऽन्तर्मनाः पाण्डवमीक्षमाणः
पुत्र्या विराटस्य ततो वराणि वस्त्राण्यदात्पाण्डुसुतस्सखीभ्यः
सभाजयंश्चापि समागतास्ता दृष्ट्वा जयं तच्च बलं कुमार्यः
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि
आसाद्यान्तःपुरद्वारं पित्रे सम्प्रत्यवेदयत्
ततो द्वास्स्थस्समागम्य प्रणिपत्य कृताञ्जलिः
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत्
द्वास्स्थः-
राजन्पृथुयशाः पुत्रो जित्वा शत्रून्समागतः
उत्तरस्सह सूतेन द्वारि तिष्ठति वारितः
वैशम्पायनः-
कुमारैर्योधमुख्यैश्च गणिकाभिश्च संवृतः
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषा
ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत्
विराटः-
वैशम्पायनः-
प्रवेशयोभौ तूर्णं तौ दर्शनेप्सुरहं तयोः
क्षत्तारं कुरुराजस्तु शनैः कर्ण उवाच ह
कङ्कः-
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नला
एतस्य हि महाबाहोर्व्रतं नित्यं महात्मनः
यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत्
अन्यत्र सङ्ग्रामगतान्न स जीवेत्कथञ्चन
व्यक्तं भृशं सुसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम्
विराटं हि सहामात्यं हन्यात्सबलवाहनम्
इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा
मम शोणितकर्तारं मृद्नीयात्किं पुनर्नरम्
वैशम्पायनः-
क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान्
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः
इत्युक्त्वा क्षमया युक्तो धर्मराजो युधिष्ठिरः
सभायां सह मात्स्येन तूष्णीमुपविवेश ह
ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवीञ्जयः
अभिवाद्य पितुः पादौ धर्मराजस्य पश्यतः
ततो रुधिरसिक्ताङ्गं धर्मराजमपश्यत
भूमावेकान्त आसीनं सैरन्ध्र्या समुपस्थितम्
उत्तरः-
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः
केनायं ताडितो विप्रः केन पापमिदं कृतम्
विराटः-
मयाऽयं ताडितो जाल्मो न चाप्येतावदर्हति
मया प्रशस्यमानेऽपि त्वयि षण्डं प्रशंसति
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत्
बृहन्नलाप्रशंसाभिरसूया मे महत्तमा
उत्तरः-
अकार्यं त्वत्कृतं राजन्क्षिप्रमेष प्रसाद्यताम्
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत्
वैशम्पायनः-
पुत्रस्य वचनं श्रुत्वा विराटो राष्ट्रवर्धनः
क्षमयामास कौन्तेयं छन्नं ब्राह्मणतेजसा
कङ्कः-
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत
चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते
यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ
न दूषयामि राजेन्द्र यस्तु हन्याददूषकम्
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात्
वैशम्पायनः-
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम्
परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम्
प्रशशंस ततो मात्स्यश्शृण्वतस्सव्यसाचिनः
विराटः-
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति
पदं पदसहस्रेण यश्चरन्नापराध्नुयात्
शूरश्च लघुहस्तश्च कर्णो लघुपराक्रमः
तेन कर्णेन ते तात कथमासीत्समागमः
पर्वतं यो विभिन्द्यात्तु राजपुत्रो वरेषुभिः
दुर्योधनेन ते तात कथमासीत्समागमः
आचार्यो वृष्णिवीराणां पाञ्चालानां च यः प्रभुः
सर्वक्षत्रस्य चाचार्यस्सर्वशस्त्रभृतां वरः
तेन द्रोणेन ते तात कथमासीत्समागमः
रणे यं प्रेक्ष्य सीदन्ति हतवीर्यपराक्रमाः
कृपेन तेन ते तात कथमासीत्समागमः
यस्य तद्विश्रुतं लोके ब्रह्मचर्यं सुदुष्करम्
पितुः कृते कृतं घोरं महद्व्रतमनुत्तमम्
येन युद्धं कृतं पूर्वं जामदग्न्येन वै सह
भीष्मेण पुरुषव्याघ्र न च युद्धे पराजितः
पराक्रमे च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः
क्षिप्रकारी दृढवेधी विश्रुतस्सर्वकर्मसु
तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे
युद्धमासीत्कथं तेन सर्वमेतद्ब्रवीहि मे
आचार्यपुत्रो यश्शूरो सर्वशस्त्रभृतां वरः
तेन वीरेण ते तात कथमासीत्समागमः
सर्वे चैव महावीर्या धार्तराष्ट्रा महारथाः
तैश्च र्वीरैश्च ते तात कथमासीत्समागमः
उत्तरः-
न मया निर्जिता गावो न मया कुरवो जिताः
कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित्
स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून्
दृष्ट्वा विषण्णं सङ्ग्रामे देवपुत्रो न्यवारयत्
स हि तिष्ठन्रथोपस्थे वज्रहस्तनिभो युवा
तेन ते निर्जिता गावः कुरवस्तेन निर्जिताः
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम्
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान्
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः
दुर्योधनं च समरे प्रभिन्नमिव कुञ्जरम्
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम्
देवपुत्रः-
न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन
व्यायामेन परीप्सस्व जीवितं कौरवात्मज
न हास्तिनपुरे शक्या भोक्तुं भोगाः पलायता
न मोक्ष्यसे पलायंस्त्वं राजन्युद्धमना भव
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि
उत्तरः-
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान्
सचिवैस्संवृतो राजा भीष्मद्रोणकृपादिभिः
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत्
यदभ्रघनसङ्काशमनीकं व्यधमच्छरैः
तत्प्रणुद्य रथानीकं सिंहदर्पसमो युवा
तान्कुरून्द्रावयद्राजन्रणे नाग इव श्वसन्
एकेन तेन शूरेण षड्रथाः परिनिर्जिताः
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा
हयानां च गजानां च शूराणां च धनुष्मताम्
निहतानि सहस्राणि भग्ना च कुरुवाहिनी
सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः
देवपुत्रसमस्सङ्ख्ये रक्तं वस्त्रं समाददे
चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं रणे
तं स विद्ध्वा हयांस्तस्य नास्य वस्त्रं समाददे
दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः
तं स विद्ध्वा हयांश्चास्य पीतं वस्त्रं समाददे
द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम्
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम्
त्रिभिस्त्रिभिश्शरैर्विद्धा दुश्शासनमुखानपि
विविधानि च वस्त्राणि महार्हाण्याजहार सः
द्वाभ्यां शराभ्यां विद्ध्वा तु तथाऽऽचार्यसुतं रणे
चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी
विराटः-
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः
यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च
येन मे त्वं च गावश्च मोक्षिता देवसूनुना
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान्
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च
उत्तरः-
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति
वैशम्पायनः-
एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम्
वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम्
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनञ्जयः
इत्येवं ब्रूहि राजानं विराटं च युधिष्ठिरम्
इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम्
ददौ रत्नानि वस्त्राणि विराटदुहितुस्स्वयम्
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत्
प्रदाय वस्त्राणि किरीटमाली विराटगेहे मुदितस्सखीभ्यः
कृत्वा महत्कर्म तदाऽऽजिमध्ये दिदृक्षया सोऽभिजगाम पार्थम्
अर्जुनः-
सम्प्रेक्षमाणस्स तु धर्मराजं पप्रच्छ पार्थोऽथ स भीमसेनम्
किं धर्मराजो हि यथापुरं मां मुखं प्रतिच्छाद्य न चाह किञ्चित्
वैशम्पायनः-
तमेवमुक्त्वा परिशङ्कमानं दृष्ट्वाऽर्जुनं भीमसेनं च राजा
तत्राब्रवीत्तावभिवीक्ष्य राजन्युधिष्ठिरस्तत्परिमृज्य रक्तम्
युधिष्ठिरः-
दुरात्मना त्वय्यभिपूज्यमाने विराटराजेन हतोऽस्मि पार्थ
तस्मात्प्रहाराद्रुधिरस्य बिन्दून्पश्यन्न चेमे पृथिवीं स्पृशेयुः
इति प्रतिच्छाद्य मुखं ततोऽहं मन्युं नियच्छन्नुपविष्ट आसम्
क्रुद्धे तु वीरे त्वयि चाप्रतीते राजा विराटो न लभेत शर्म
अजानता तेन च शौर्यमग्र्यं छन्नस्य ते पार्थ बलं च वीर्यम्
इदं विराटेन तदा प्रयुक्तं त्वां वीक्षमाणो न गतोस्मि हर्षम्
वैशम्पायनः-
तेनाप्रमेयेन महाबलेन तस्मिंस्तथोक्ते शममास्थितेन
तं भीमसेनो बलवानमर्षी धनञ्जयं क्रुद्ध उवाच वाक्यम्
भीमः-
न पार्थ नित्यं क्षमकालमाह बृहस्पतिर्ज्ञानवतां वरिष्ठः
क्षमी हि सर्वैः परिभूयते स्म यथा भुजङ्गो विषवीर्यहीनः
विराटमद्यैव निहत्य शीघ्रं सपुत्रपौत्रं सकुलं ससैन्यम्
योक्ष्यामहे धर्मसुतं च राज्ये अद्यैव शीघ्रं त्वरिरेष मात्स्यः
अनेन पाञ्चालसुताऽथ कृष्णा उपेक्षिता कीचकेनाभियुक्ता
तस्मादयं नार्हति राजशब्दं राजा भव त्वं नृप पार्थवीर्यात्
राजा कुरूणां च युधिष्ठिरोऽयं मात्स्येषु राजा भवतु प्रतीतः
तं मात्स्यदेहं शतधा भिनद्मि कुम्भं घनेनेव यथाऽम्बुपूेर्णम्
अर्जुनः-
भवतः क्षमया चैव सर्वे दोषाश्च नोऽभवन्
वैशम्पायनः-
तस्मादेनं च हत्वा वै सबलं सहबान्धवम्
पश्चाच्चैव कुरून्सर्वान्हनिष्यामो न संशयः
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन्
युधष्ठिरः-
तमब्रवीद्धर्मसुतो महात्मा क्षमी वदान्यः कुपितं च भीमम्
न प्रत्युपस्थास्यति चेत्सदारः प्रसादने सम्यगथास्तु वध्यः
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन
श्वः प्रभाते प्रवेक्ष्यामस्सभां सिंहासनेष्वपि
राजवेषेण संयुक्तान्यदि तत्र न मंस्यते
पश्चाद्धन्यामहे सर्वान्विराटेन सबान्धवान्
वैशम्पायनः-
इतिकर्तव्यतां सर्वे मन्त्रयित्वाऽथ पाण्डवाः
न्यवसंश्चैव तां रात्रिं पाण्डवा धर्मवत्सलाः
पुत्रेण सह मात्स्यस्तु सम्प्रहृष्टो नराधिपः
तां रात्रिमवसद्धीमान्सम्प्रहृष्टेन चेतसा