वैशम्पायनः-
अविजित्य धनं चैव विराटो वाहिनीपतिः
प्राविशन्नगरं हृष्टश्चतुर्भिस्सह पाण्डवैः
जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवानाय्य केवलाः
अशोभत महाराजस्सह पार्थैः श्रिया वृतः
तमासनगतं वीरं सुहृदां नन्दवर्धनम्
उपतस्थुः प्रकृतयस्समस्तैर्ब्राह्मणैस्सह
सभाजितस्स ताभिस्तु प्रतिनन्द्य स मत्स्यराट्
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा
ततस्स राजा मात्स्यानां विराटो वाहिनीपतिः
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत्
आचख्युस्तस्य संहृष्टास्स्त्रियः कन्याश्च वेश्मनि
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्
ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात्
बृहन्नलासहायश्च निर्यातः पृथिवीञ्जयः
उपयातानतिरथान्द्रोणं शान्तनवं कृपम्
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान्
ततो विराटः परमाभितप्तः पुत्रं निशम्यैकरथेन यातम्
बृहन्नलासारथिमाजिमर्दनं प्रोवाच सर्वानथ मन्त्रिमुख्यान्
राजा-
गवां शतसहस्राणि अभिभूयं ममात्मजम्
कुरवः कालयन्ति स्म सर्वे युद्धविशारदाः
तस्माद्गच्छन्तु मे योधा बलेन महता वृताः
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः
वैशम्पायनः-
हयांश्च नागांश्च रथांश्च शीघ्रं वादित्रसङ्घांश्च ततः प्रभूतान्
प्रस्थापयामास सुतस्य हेतोर्विचित्रनानाभरणोपपन्नान्
एवं स राजा मात्स्यानां महानक्षोहिणीपतिः
व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम्
कुमारमाशु जानीत यदि जीवति वा नवा
यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति
तमब्रवीद्धर्मसुतो विराटमार्तं विदित्वा कुरुभिः प्रतप्तम्
कङ्कः-
बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गाश्च
सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरनागयक्षान्
अलं विजेतुं समरे सुतस्ते स्वनुष्ठितस्सारथिना हि तेन
सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथञ्चन
वैशम्पायनः-
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः
विराटनगरं प्राप्य जयमावेदयंस्तदा
राजानं तत आचख्युर्मन्त्रिभिर्जयमुत्तमम्
पराजयं कुरूणां च उपायान्तं तथोत्तरम्
दूतः-
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः
उत्तरस्सह सूतेन कुशली च परन्तपः
कङ्कः-
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः
दिष्ट्या जीवति ते पुत्रश्श्रूयते पार्थिवर्षभ
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला
देवेन्द्रसारथिश्चैव मातलिर्लघुविक्रमः
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ
वैशम्पायनः-
ततो विराटो नृपतिस्सम्प्रहृष्टतनूरुहः
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः
सन्तोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः
गते त्वनुबले तस्मिन्दूतवाक्यं निशम्य च
उत्तरस्य जयं प्रीतो विराटः प्रत्यभाषत
विराटः-
राजमार्गाः क्रियन्तां वै पताकाभिरलङ्कृताः
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः
कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम
भवन्तु ते लब्धजये सुते मे पौराश्च नार्यश्च परे च मर्त्याः
ते शुक्लवस्त्राः प्रभवन्तु मार्गे सुगन्धमाल्याभरणाश्च नार्यः
भजन्तु सर्वा गणिकास्सुतं मे नार्यश्च सर्वास्सहसोदराश्च
स्वलङ्कृतास्ता सुभगास्सुवेषाः पुत्रस्य पन्थानमनुव्रजन्तु
घण्टापणवकश्शीघ्रं मत्तमारुह्य कुञ्जरम्
शृङ्गाटकेषु सर्वेषु समाख्यातु जयं मम
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता
सखीं विजितसङ्ग्रामां प्रत्युद्यातु बृहन्नलाम्
वैशम्पायनः-
श्रुत्वा तु वचनं राज्ञः पौराः स्वस्तिकपाणयः
सर्वे सुप्रीतमनसः प्रतिजग्मुर्यथोचितम्
सूताश्च सर्वे सहसैनिकाश्च दृष्टा विराटस्य जयं जनौघाः
भेरीश्च तूर्याणि च वारिजांश्च वेषैः परार्ध्यैः प्रमदाजनाश्च
वन्दिप्रवादाः पणवादिकाश्च तथैव वाद्यानि च वंशशब्दाः
सकांस्यतालं मधुरं च गीतमादाय नार्यो नगरान्निरीयुः
प्रत्युद्ययुः पुत्रमनन्तवीर्यं ते ब्राह्मणाश्शान्तिपराः प्रधानाः
स्वाध्यायवेदाध्ययनक्रमज्ञास्स्वस्तिक्रियागीतजपप्रधानाः
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत्
वैशम्पायनः-
विराटः-
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम्
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत
कङ्कः-
न देवितव्यं हृष्टेन कितवेनेति नश्श्रुतम्
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे
प्रियं तु ते चिकीर्षामि वर्ततां यदि रोचते
विराटः-
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन
न मे किञ्चित्त्वया रक्ष्यमन्तरेणापि देवितम्
कङ्कः-
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत्
श्रुतस्ते यदि वा दृष्टः पाणडवो वा युधिष्ठिरः
स राज्यं धनमक्षय्यं पणमेकममन्यत
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान्
निस्संशयं स कितवः पश्चात्तपति पाण्डवः
विविधानां च रत्नानां धनानां च पराजये
अथ क्षितिविनाशश्च वाक्पारुष्यमनन्तरम्
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम्
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये
अथवा मन्यसे राजन्दीव्यतां यदि रोचते
वैशम्पायनः-
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत्
विराटः-
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः
कुरवोऽतिरथास्सर्वे देवैरपि सुदुर्जयाः
वैशम्पायनः-
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः
युधिष्ठिरः-
अत्यद्भुतमहं मन्ये उत्तरश्चेत्कुरूञ्जयेत्
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः
यन्ता बृहन्नला यस्य सा कथञ्चिद्विजेष्यते
वैशम्पायनः-
ततो विराटः क्षुभितो मन्युना च परिप्लुतः
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम्
विराटः-
तादृशेन तु योधेन महेष्वासेन धीमता
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम्
युधिष्ठिरः-
यन्ता तथाविधो यस्य रथे तिष्ठति वीर्यवान्
यदि तद्दुष्करं कुर्यात्तत्र किं नाद्भुतं भवेत्
विराटः-
पुमांसो बहवो दृष्टास्सूताश्च बहवो मया
विक्रम्य यन्ता योद्धा च न मे दृष्टः कथञ्चन
विप्रियं नाचरेद्राज्ञामनुरूपं प्रियं वदेत्
आचरन्विप्रियं राज्ञां न जातु सुखमेधते
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे
नेदृशीं प्रवदेर्वाचं यदि जीवितुमिच्छसि
वैशम्पायनः-
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः
कङ्कः-
बृहन्नलाया राजेन्द्र घुष्यतां नगरे जयः
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति
निमित्तं किञ्चिदुत्पन्नं तर्कश्चापि दृढो मम
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः
ससोमवरुणादित्यैस्सकुबेरहुताशनैः
यत्र शान्तनवो भीष्मो द्रोणकर्णौ च दुर्जयौ
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः
भूरिश्रवाश्शलो भूरिर्जलसन्धिश्च वीर्यवान्
दुर्योधनो दुष्प्रसहो दुश्शासनविविंशती
वृषसेनोऽश्वसेनश्च वातवेगसुवर्चसौ
बाह्लीकश्शूरसेनश्च युयुत्सुश्च परन्तपः
सौबलश्शकुनिश्चैव द्युमत्सेनश्च साल्वराट्
अन्ये च बहवश्शूरा नानाजनपदेश्वराः
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः
सज्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः
अन्ये चैव महावीर्या राजपुत्रा महारथाः
मरुद्गणैः परिवृतस्साक्षादपि पुरन्दरः
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम्
कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति
वैशम्पायनः-
तेन सङ्क्षुभितो राजा दीर्यमाणेन चेतसा
अब्रवीद्वचनं तात अजानन्वै युधिष्ठिरम्
विराटः-
कङ्क मा त्वं ब्रवीर्वाक्यं प्रतिकूलं द्विजोत्तम
बहुशः प्रतिषिद्धस्त्वं न चेद्वाचं नियच्छसि
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्
वैशम्पायनः-
ततः प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम्
ततस्तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम्
विराटः प्राहरत्क्रुद्धः कर्णमाश्रित्य दक्षिणम्
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन्
बलवत्प्रतिविद्धस्य ततश्शोणितमागमत्
अक्षेणाभिहतो राजा विराटेन महीपतिः
तूष्णीमासीन्महाबाहुः कृष्णां सम्प्रेक्ष्य दुःखिताम्
तस्य रक्तोत्पलनिभं शिरसश्शोणितं तदा
प्रावर्तत महाबाहोरभिघातान्महात्मनः
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत्
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतस्स्थिताम्
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा
विराटः-
बाष्पं नियम्य दिःखेन भर्तुर्निःश्रेयसैषिणी
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम्
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत्
युधिष्ठिरस्य राजेन्द्र द्रुपदस्यात्मजा तदा
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते
कोऽत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः
सैरन्ध्री-
रक्तबिन्दूनि कङ्कस्य यावन्ति धरणीं ययुः
तावद्वर्षाणि ते राष्ट्रेष्वनावृष्टिर्भविष्यति
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव