वैशम्पायनः-
ततो विजित्य सङ्ग्रामे कुरुन्गोवृषभेक्षणः
समानयामास तदा विराटस्य धनं महत्
गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः
भयात्सन्त्रस्तमनसस्समाजग्मुस्ततस्ततः
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा
क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः
ऊचुः प्राञ्जलयस्सर्वे ब्रूहि किं करवामहे
प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम्
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः
अर्जुनः-
अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान्
न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन्
भवन्तो यान्तु विस्रब्धा निर्भया ह्यकुतोभयः
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि
वैशम्पायनः-
तस्य तामभयां वाचं श्रुत्वा योधास्समागताः
आयुः कीर्तियशोभिस्ते तमाशीर्भिरपूजयन्
स कर्म कृत्वा परमार्यकर्मा निवर्त्य शत्रून्द्विषतां निहन्ता
यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः
तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्सम्परिगृह्य राजन्
अर्जुनः-
पितुस्सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति
तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः
मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः
एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि
उत्तरः-
यत्ते कृतं कर्म न वारणीयं तत्कर्म न ममास्ति शक्तिः
न त्वां प्रवक्ष्यामि पितुस्सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन्
वैशम्पायनः-
स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं च धनं कुरूणाम्
श्मशानमागम्य पुनश्शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः
ततस्स वह्निप्रतिमो महाकपिस्सहैव भूतैर्दिवमुत्पपात
तथैव माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः
निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तदा
प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा
पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता
विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य
बृहन्नलावेषमथो विधाय प्रायात्स मात्स्यं नगरं प्रवेष्टुम्
पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत्
अर्जुनः-
यतो निवृत्ताः कुरवः प्रभग्नाश्शममास्थिताः
राजपुत्र प्रपद्यस्व समानीतानि सर्वशः
गोकुलानि महाबाहो वीर गोपालकैस्सह
ततोऽपराह्णे यास्यामो विराटनगरं प्रति
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः
गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्
वैशम्पायनः-
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः
वचनादर्जुनस्यैव आचक्षध्वं जयं मम