वैशम्पायनः-
आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृतराष्ट्रपुत्रः।
निवर्तितश्चैव गिराङ्कुशेन गजो युवा मत्त इवाङ्कुशेन
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी
ततस्स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः
दुर्योधनः-
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम्
धृतिं कृत्वा सुविपुलां प्रत्युवाच धनञ्जयम्
नाहमिन्द्रादभिक्रुद्धाद्बिभेमि भारतर्षभ
भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च
किमर्थं युद्धसमये पलायिष्ये नरोत्तम
वैशम्पायनः-
एवमुक्त्वा महाबाहुः प्रत्ययुध्यत फल्गुनम्
सन्निपत्य तु शीघ्राश्वस्तोत्रार्दित इव द्विपः
आक्रम्य तरसा वीरो धनुर्वक्र इवोरगः
रथं रथेन सङ्गम्य योधयामास पाण्डवम्
तं प्रेक्ष्य कर्णः परिवर्तमानो विवृत्य संस्तम्भ्य च सर्वगात्रम्
दुर्योधनं दक्षिणतो ररक्ष पार्थान्नृवीरौ युधि हेममाली
भीष्मस्तदा शान्तनवो निवृत्य हिरण्यकक्ष्यांस्त्वरयंस्तुरङ्गान्
दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा
द्रोणः कृपश्चैव विविंशतिश्च दुश्शासनश्चैव निवृत्य शीघ्रम्
सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरयाऽभ्युपेयुः
सर्वाण्यनीकानि निवर्तितानि सम्प्रेक्ष्य पूर्णौघनिभानि पार्थः
हंसो यथा मेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी
ते सर्वतस्सम्परिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः
ववर्षुरभ्येत्य शरैस्समन्तान्मेघा यथा भूधरमम्बुवेगैः
ततोऽस्त्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम्
सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम्
ततो दिशश्चानुदिशो निवार्य शरैस्सुघोरैर्निशितैस्सुपुङ्खैः
गाण्डीवशब्देन मनांसि तेषां महाबलः प्रव्थयाञ्चकार
ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम्
व्यनादयन्सम्प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता
ते शङ्खनादेन कुरुप्रवीरास्सम्मोहिताः पार्थसमीरितेन
उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः
तथा विसञ्ज्ञेषु परेषु पार्थस्संस्मृत्य सन्देशमथोत्तरायाः
निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसञ्ज्ञाः
आचार्यशारद्वतयोस्सुशुक्ले कर्णस्य पीतं रुचिरं सुवस्त्रम्
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर
भीष्मस्य सञ्ज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः
एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसञ्ज्ञैः
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः
वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि
महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि
हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष
माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि
वस्त्राण्युपादाय महारथानां तूर्णं पुनस्स्वं रथमारुरोह
राज्ञश्च सर्वान्मृतसन्निकाशान्सम्मोहनास्त्रेण विसञ्ज्ञकल्पान्
नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः
ततोऽन्वशात्तांश्चतुरस्सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान्
एते व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात्
तथा प्रयान्तं पुरुषप्रवीरं भीष्मश्शरैरभ्यहनत्तरस्वी
स चापि भीष्मस्य हयान्निहत्य विव्याध पार्थो निशितैः पृषत्कैः
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमधिज्यधन्वा
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः
लब्ध्वा तु सञ्ज्ञां पुरुषप्रवीरः पार्थं समीक्ष्याथ महेन्द्रकल्पम्
रणाद्विमुक्तं स्थितमेकमाजौ स धार्तराष्ट्रस्त्वरितो बभाषे
दुर्योधनः-
अयं कथं स्विद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत्
वैशम्पायनः-
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्व वीर्यम्
शान्तिं समासाद्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम्
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम्
जह्यान्न धर्मं त्रिदिवस्य हेतोस्सर्वे तु तस्मान्न हता रणेऽस्मिन्
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः
सम्मोहनास्त्रप्रतिमोहितास्स्थ यूयं न जानीथ धनापहारम्
पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि
नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति
तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः
भाग्येन युष्मानवधीन्न पार्थस्सन्धिं कुरूणामनुमन्यमानः
तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम्
दुर्योधनस्तस्य तु तन्निशम्य पितामहस्यात्महितं वचोऽथ
अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम्
तद्भीष्मवाक्यं हि समीक्ष्य सर्वे धनञ्जयाग्निं च विवर्धमानम्
निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः
तान्प्रस्थितान्प्रीतमनास्समर्थो धनञ्जयस्सर्वकुरुप्रवीरः
आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम्
तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि
गाण्डीवधन्वा प्रवरः कुरूणां शङ्खं प्रदध्मौ बलवान्बलेन
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शृत्वा नदतोऽन्तरिक्षे
गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुस्सर्वधनं विहाय
ततोऽर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य
आपृच्छ्य तान्दूरतरं प्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा
गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाश्शरैस्सह
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः
द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैर्विचित्रैरभिवाद्य सङ्ख्ये
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम्
गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवंस्ते कुरवोऽभिसर्तुम्
धनञ्जयं सिंहमिवात्तवक्त्रं गा वै विजित्याभिमुखं प्रयान्तम्
उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम्
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः
जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः
अर्जुनः-
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टम्
उद्घुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु गन्धमाल्यम्
माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम्