अर्जुनः-
दक्षिणामेव तु दिशं हयानुत्तर वाहय
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम्
अश्वत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे
अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम्
वैशम्पायनः-
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा
यथा सुसंस्कृतो बाणस्सुपर्णश्चापि शीघ्रगः
तथा पार्थरथश्शीघ्रमाकाशे पर्यवर्तत
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः
द्रोणभीष्ममुखास्सर्वे सैन्यानां जघने ययुः
यत्ताः पार्थमपश्यन्तस्सहिताश्शरविक्षताः
सैनिकाः-
दिष्ट्या दुर्योधनो मुक्तस्सैन्यं भूयिष्ठमागतम्
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे
याम यत्र वनं गुल्मं नदीमन्वश्मकां प्रति
वैशम्पायनः-
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे
अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम्
न्यवर्तत कुरुश्रेष्ठस्स्वेनानीकेन संवृतः
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपादिभिः
ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम्
अर्जुनः-
इदं त्विदानीमनयं कुरूणां शिवं धनुश्शत्रुनिबर्हणं च
अत्याशुगं वेगवदाशुकर्तृ त्ववारणीयं महते रणाय
प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम्
प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैस्सुतीक्ष्णैः
आचार्यपुत्रं च पितामहं च सुयोधनं सूतसुतं च सङ्ख्ये
द्रोणं कृपं चैव निवार्य युद्धे शिरो हरिष्यामि सुयोधनस्य
वैशम्पायनः-
तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च
भीतोऽब्रवीदर्जुनमुग्रवेगं नाहं तवाश्वान्विषहे नियन्तुम्
तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता
अर्जुनः-
वैशम्पायनः-
मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वान्प्रचुचोद शीघ्रम्
विष्फारयंस्तद्धनुरुग्रघोषं युयुत्समानः पुनरेव जिष्णुः
गाण्डीवशब्देन तु यत्र योधा भूमौ निपेतुर्बहवोऽतिवेलम्
शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवरास्समन्तात्
अर्जुनः-
एषोऽतिमानी धृतराष्ट्रपुत्रस्सेनामुखे सर्वसमृद्धतेजाः
पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात्
तमेव याहि प्रसमीक्ष्य यत्तस्सुयोधनं तत्र सहानुजं च
वैशम्पायनः-
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीरास्सहसाऽभ्यगच्छन्
प्रहस्य जिष्णुस्स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रसूनुः
युयुत्समानोऽतिरथेन सङ्ख्ये श्वसन्निगृह्यार्जुनमाससाद
स भीमधन्वानमुदग्रवेगं धनञ्जयं शत्रुगणैरजय्यम्
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन
रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः
अथास्य बाणेन विदारितस्य प्रादुर्बभूवास्रगजस्रमुष्णम्
सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म
स तेन बाणाभिहतस्तरस्वी दुर्योधनेनोद्धतमन्युवेगः
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः
अन्योन्यमाजौ पुरुषप्रवीरौ समं समाजघ्नतुराजमीढौ
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत्
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः
पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम्
विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः
शरप्रतप्तस्स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा
संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णस्सहसाऽवतीर्य
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेस्स्यन्दनमारुरोह
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम्
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद
हते द्विपे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे
गाण्डीवमुक्तैरिषुभिः प्रणुन्नास्ते योधमुख्यास्सहसा प्रजग्मुः
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्न्द्रवतो निरीक्ष्य
रथं समावृत्य कुरप्रवीरो रणात्प्रदुद्राव यतो न पार्थः
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी
अन्वागमद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम्
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे
सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि
ततस्तु ते शान्तिपराश्च योधा दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम्
उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम्
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुस्सहसा रथेभ्यः
भयार्दिताः पार्थशराभितप्तास्सिंहाभिपन्ना इव वारणेन्द्राः
संरक्तनेत्रस्स्वयमिन्द्रकल्पो वैकर्तनं द्वादशभिः पृषत्कैः
विव्याध तेषां द्रवतां समीक्ष्य दुश्शासनं चैकरथेन पार्थः
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा
कर्णः-
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः
भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम्
वैशम्पायनः-
शरार्दितास्ते युधि पाण्डवेन प्रसस्रुरन्योन्यमथाह्वयन्तः
कर्णोऽब्रवीदापतिते च जिष्णौ दुर्योधनं सम्परिवार्य यामः
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम्
अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम्
समीक्ष्य पार्थं सहसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम्
भयार्तरूपश्शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम्
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी
इत्यब्रवीत्प्रीतमनाः किरीटी बाणेन विद्धिं रुधिरं वमन्तम्
अर्जुनः-
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम्
न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि
कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम्
सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान्
च्युतस्य युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप
न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः
युद्धात्प्रयातस्य नरेन्द्रसूनोः परे च लोके फलिता न चेह
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि
तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रघृत्तं स्मर धार्तराष्ट्र
मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात्
दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनस्सन्निकृतिप्रधानः
नहीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाय
न ते पुरस्तादथ पृष्ठतोऽपि पश्यामि दुर्योधन रक्षितारम्
परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान्