वैशम्पायनः-
गास्ता विजित्य सङ्ग्रामे कुरूणां मिषतां रणे
ततो युद्धमनाः पार्थः प्रायात्पञ्च रथान्प्रति
आददानश्च नाराचान्विमृशन्निषुधी अपि
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगात्
अश्वत्थामा-
कर्ण यत्त्वं सभामध्ये बह्वबद्धं विकत्थसे
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्
एषोऽन्तक इव क्रुद्धस्सर्वभूतावमर्दनः
अदूरात्प्रत्युपस्थाय दृश्यते केसरी यथा
कर्णः-
नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात्
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः
सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम्
दर्शनाज्जायते सत्त्वं स्वरश्च न विषीदति
पश्यत्वाचार्यपुत्रो मामर्जुनेन रणे सह
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम्
वैशम्पायनः-
तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम्
त इषून्सम्यगस्यन्तो मुमुर्षन्तोपि जीवितत्
ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम्
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः
बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः
अथ ते प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम्
ततः प्रहस्य बीभत्सुस्सर्वशस्त्रभृतांवरः
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान्
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्
एवं गाण्डीवनिर्मुक्तैश्शरैः प्राच्छादयद्दिशः
न रथानां न चाश्वानां न ध्वजानां न दन्तिनाम्
अविद्धं निशितैर्बाणैरासीद्द्व्यङ्गुलमन्तरम्
सर्वे शान्तिपरा योधास्स्वचित्तं नाभिजज्ञिरे
हस्त्यश्वाश्चापि वित्रस्ता व्यवलीयन्त सर्वशः
यथा नलवनं नागः प्रभिन्नष्षाष्टिहायनः
एवं सर्वानपामृद्नादर्जुनश्शस्त्रतेजसा
गाण्डीवस्य च घोषेण पृथिवी समकम्पत
मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः
ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः
सारथिं समरे शूरमभ्यभाषत वीर्यवान्
अर्जुनः-
सन्नियम्य हयानेतान्मन्दं वाहय सारथे
आचार्यपुत्रं समरे योधयिष्यामि मानिनम्
पुरा ह्येष मया युक्तस्सार्थीभवति पृष्ठतः
वैशम्पायनः-
एवमुक्तोऽर्जुनेनासावश्वत्थामरथं प्रति
विराटपुत्रो जवनान्भृशमश्वानचोदयत्
कर्णः-
एषोऽपयाति बीभत्सुर्व्यथितो गाढवेदनः
तं तु तत्रैव यास्यामि नायं मुच्येत जीवितात्
द्रोणः-
भयान्नैवेष निर्याति महात्मा पाकशासनिः
नैवं भीता निवर्तेत न पुनर्गाढवेदनः
यद्येनमभिसङ्क्रुद्धं पुनरेवाभियास्यसि
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान्
दिष्ट्या दुर्योधनो मुक्तो गावस्सर्वाः पलायिताः
मुक्तो दिष्ट्या च सङ्ग्रामे किं रणेन करिष्यसि
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ