वैशम्पायनः-
एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत्
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः
नरसिंहमुपायान्तं जिगीषन्तं परान्रणे
वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनञ्जयम्
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम्
न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम्
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे
स पार्थबाणाभिहतो रथात्प्रस्कन्द्य चाद्रवत्
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम्
तेषां पार्थो रणे क्रुद्धश्शरैस्सन्नतपर्वभिः
युगान्रथान्ध्वजांश्चाक्षांश्चिच्छेद तरसा रणे
ते निकृत्तध्वजास्सर्वे छिन्नकार्मुकवेष्टनाः
रणमध्यादपययुः पार्थबाणाभिपीडिताः
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत्
अर्जुनः-
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम्
मेघमध्ये यथा विद्युच्चलतीव पुनः पुनः
असौ शान्तनवो भीष्मस्तत्र याहि परन्तप
अस्त्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे
घोररूपाणि चित्राणि लघूनि च गुरूणि च
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति
तं तथा चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम्
वायुनेव महामेघं सहसाऽभिसमीरितम्
तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुरञ्जयः
प्रत्युज्जगाम युद्धार्थी महर्षभमिवर्षभः
तथाभिगुप्तये तेषां दुराधर्षः पितामहः
हन्यमानेषु योधेषु धनञ्जयमुपाद्रवत्
प्रगृह्य कार्मुकश्रेष्ठं जाम्बूनदपरिष्कृतम्
शरानादाय तीक्ष्णाग्रान्मर्मदेशप्रमाथिनः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे स नरव्याघ्रो गिरिस्सूर्योत्तरो यथा
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन्
प्रदक्षिणमुपावृत्य बीभत्सुं समयोधयत्
समवेक्ष्य तमायान्तं कौन्तेयः परवीरहा
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान्
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा
नादयामासतुस्तत्र खं च भूमिं च सर्वतः
प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम्
अन्तरिक्षे प्रजल्पन्ति सर्वे देवास्सवासवाः
देवाः-
यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्त्रतेजसा
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनञ्जयौ
सर्वास्त्रकुशलौ लोके एतावतिरथावुभौ
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ
उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते
वैशम्पायनः-
इति सम्पूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम्
रणे सम्प्रहरिष्यन्तं दृष्ट्वा देवास्सवासवाः
अथ बहुविधशङ्खतूर्यघोषैर्विविधरवैस्सह सिंहनादमिश्रैः
कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत्
ततो भीष्मश्शान्तनवो वीर्यवान्सायकान्बहून्
समर्पयन्महावेगाञ्श्वसतः पन्नगानिव
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः
ज्वलन्तं कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान्
सारथिं च हयांश्चास्य विव्याध निशितैश्शरैः
उरस्यताडयत्पार्थं त्रिभिरेवायसैश्शरैः
तदाऽर्जुनश्शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम्
ध्वजं च सारथिं चापि विव्याध दशभिश्शरैः
तद्युद्धमभवद्घोरं रोमहर्षणमद्भुतम्
भीष्मस्य सह पार्थेन बलिवासवयोरिव
सन्ततं शरजालाभिराकाशं समपद्यत
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिस्सृतैः
भल्लैर्भल्लास्समाहत्य भीष्मपाण्डवयो रणे
अन्तरिक्षेऽप्यशोभन्त खद्योताः प्रावृषीव हि
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे
गाण्डीवमभवज्जिष्णोस्सव्यं दक्षिणमस्यतः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः
तां समुद्रमिवोद्धूतां शरघृष्टिं दुरासदाम्
व्यधमत्सायकैर्भीष्मो ह्यर्जुनं समवारयत्
ततस्तानि विसृष्टानि शरजालानि सङ्घशः
आहतानि व्यशीर्यन्त अर्जुनस्य रथं प्रति
ततः कनकपुङ्खाग्रैश्शितैस्सन्नतपर्वभिः
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः
ततः प्रासृजदुग्राणि शरजालानि पाण्डवः
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत्
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः
ततो देवर्षिगन्धर्वास्साधुसाध्वित्यपूजयन्
दुष्करं कुरुते भीष्मो यदर्जुनमयोधयत्
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः
कोऽन्यस्समर्थः पार्थस्य वेगं धारयितुं रणे
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात्
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात्
अस्त्रैरस्त्राणि संवार्य क्रीडन्तौ पुरुषोत्तमौ
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ
प्राजापत्यं च दैवेन्द्रमाग्नेयं च सुदारुणम्
कौबेरं वारुणं चैव याम्यं वायव्यमेव च
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे
महास्त्राणां सम्प्रयोगं समरे भीष्मपार्थयोः
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत
अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम्
न्यकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम्
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे
समादाय नरव्याघ्रस्सज्यं चक्रे महाबलः
शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनञ्जये
अर्जुनोऽपि शरान्घोरान्भीष्माय निशितान्बहून्
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान्
न विशेषस्तदा राजँल्लक्ष्यते सुमहात्मनोः
अथावृणोद्दश दिशश्शरैरतिरथस्तथा
किरीटमाली कौन्तेयश्शूरश्शान्तनवं तदा
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम्
बभूव तत्र सङ्घेऽस्मिँल्लोके राजंस्तदद्भुतम्
पाण्डवेन हताश्शूरा भीष्मस्य रथरक्षिणः
शेरते स्म तदा राजन्कौन्तेयस्याहताश्शरैः
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः
अगच्छन्पुङ्खसंसक्ताश्श्वेतवाहनपत्रिणः
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः
प्रेक्षन्ते स्मान्तरिक्षस्थास्सर्वे देवाः सवासवाः
तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम्
शशंस देवराजाय चित्रसेनः प्रतापवान्
चित्रसेनः-
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः
नेदं मनुष्याश्श्रद्दध्युर्न हीदं तेषु विद्यते
सौराणां च महास्त्राणां विचित्रोऽयं समागमः
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे
न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम्
उभौ विश्रुतकर्माणावुभौ वीरौ महीक्षिताम्
उभौ सदृशकर्माणावुभौ युधि दुरासदौ
वैशम्पायनः-
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्
पूजयामास दिव्येन पुष्पवर्षेण भारत
ततो भीष्मश्शान्तनवो वामपार्श्वे समर्पयत्
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम्
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम्
गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः
तं विसञ्ज्ञमपोवाह संयन्ता रथवाजिनाम्
उपदेशमनुस्मृत्य रक्षमाणो महारथम्