वैशम्पायनः-
एतस्मिन्नन्तरे तत्र महासत्त्वपराक्रमः
आजगाम महावीर्यः कृपश्शस्त्रभृतांवरः
अर्जुनं प्रतियोद्धुं वै युद्धकामी महारथः
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम्
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम्
तौ वीरौ सूर्यसङ्काशौ योत्स्यमानौ महारथौ
वार्षिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ
प्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया
कृपश्च धनुरादाय तथैवार्जुनमभ्यगात्
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान्
कृपश्चिक्षेप पार्थाय शतशोऽथ सहस्रशः
जीमूत इव घर्मान्ते शरवर्षममुञ्चत
नन्दयन्सुहृदस्सर्वान्प्रत्ययुध्यत फल्गुनम्
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः
चचार समरे पार्थश्चित्रान्मार्गान्प्रदर्शयन्
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महारथः
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः
प्राच्छादयदमेयात्मा पार्थश्शरशतैः कृपम्
उद्गतस्समरे पार्थो धाराभिरिव पर्वतम्
स शरैरर्पितः क्रुद्धश्शितैरग्निशिखोपमैः
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलन्
ततश्शरसहस्रेण पार्थमप्रतिमौजसम्
अर्दयित्वा महानादमकरोत्समरे कृपः
ततः कनकपुङ्खेन शरेण नतपर्वणा
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम्
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान्
जग्राह समरे पार्थो भूयो बहुशिलीमुखान्
तैस्तदानीं महाबाहुः कृपस्य रथरक्षिणः
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथः
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तदा
मुञ्जमौलिश्च विक्रान्तो हेमवर्मा भयावहः
सुरथोऽतिरथश्चैव सुषेणोऽरिष्ट एव च
धृष्टकेतुश्च सानीकास्ते निषेदुर्गतासवः
तान्निहत्य ततः पार्थो निमेषादिव भारत
पुनरन्यान्समादाय त्रयोदश शिलीमुखान्
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्
षष्ठेन स शिरस्सङ्ख्ये शरेण कृपसारथेः
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे
स छिन्नधन्वा विरथो हताश्वो हतसारथिः
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम्
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम्
आपतन्तीं महोल्काभां चिच्छेद दशभिश्शरैः
सापतद्दशधा भूमौ पार्थेन निहता शरैः
शक्त्यां तु विनिकृत्तायां विरथश्शरपीडितः
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा
गदां चिक्षेप सहसा पार्थायामिततेजसे
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा
अथ खड्गं समुद्धृत्य शतचन्द्रं च भानुमत्
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः
स शरद्वत्सुतस्तूर्णं महाचार्यस्सुशिक्षितः
चचाल खेचर इव क्रमाच्चर्मासिधृग्भुवि
ततः क्षुरग्रैः कौन्तेयो दशभिः खड्गचर्मणी
निमेषादिव चिच्छेद तदद्भुतमिवाभवत्
विषण्णवदनस्तत्र व्युद्धादपगतोद्यमः
अश्वत्थाम्नस्तु स रथं कृपस्समभिपुप्लुवे
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः
भीष्मः-
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत्
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम्
एकैकमस्मान्सङ्ग्रामे पराजयति फल्गुनः
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च
अन्ये च बहवश्शूरा वयं जेष्याम वासविम्
वैशम्पायनः-
समागम्य तु ते सर्वे भीष्मद्रोणमुखा रथाः
अर्जुनं सहसा यत्ताः प्रत्ययुध्यन्त भारत
स सायकमयैर्जालैस्सर्वतस्तान्महारथान्
प्राच्छादयच्छरौघैस्तु नीहार इव पर्वतान्
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्
नाराश्वकायान्निर्भिद्य लौहानि कवचानि च
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ
त्वरमाणश्शरानस्यन्पाण्डवस्तु प्रकाशते
मध्यन्दिनगतोऽर्चिष्माञ्छरदीव दिवाकरः
अविषह्य शरान्सर्वे पार्थचापच्युतान्रणे
उदक्प्रयान्ति वित्रस्ता रथेभ्यो रथिनस्तदा
सादिनश्चाश्वपृष्ठेभ्यो भूमेश्चापि पदातयः
शरैस्तु ताड्यमानानां कवचानां महात्मनाम्
ताम्रराजतलोहानां समपद्यन्त राशयः
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम्
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम्
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम्
प्रनृत्यन्निव सङ्ग्रामे चापहस्ते धनञ्जयः
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभ
श्रुत्वा गाण्डीवनिर्घोषं विष्फूर्जितमिवाशनेः
त्रस्तानि सर्वसैन्यानि व्यलीयन्ति स्म भागशः
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः
सहस्ताभरणैश्छिन्नैः प्रच्छन्ना भाति मेदिनी
शिरसां पात्यमानानां समरे निशितैश्शरैः
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ
दर्शयित्वा तथाऽऽत्मानं रौद्रं रुद्रपराक्रमः
जघान समरे शूराञ्छतशोऽथ सहस्रशः
तथावरुद्धश्चारण्ये दश वर्षाणि त्रीणि च
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम्
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत
यथा नलवनं नागः प्रभिन्नष्षाष्टिहायनः
एवं सर्वानपामृद्नादर्जुनश्शस्त्रतेजसा
विद्राव्य पतितं सैन्यं त्रासयित्वा महारथान्
अर्जुनो जयतां श्रेष्ठः पर्यावर्तत भारत
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी
अस्थिशैवालसम्बाधा सङ्ग्रामे पार्थनिर्मिता
शरचापप्लवां घोरां मांसशोणितकर्दमा
करवालविपाठीना चामरोष्णीषफेनिला
अश्वग्रीवामहावर्ता कबन्धजलमानुषा
काककङ्करुता तीव्रा सारसक्रौञ्चनादिता
सिंहनादमहानादा शङ्खकम्बुकसङ्कुला
वीरोत्तमाङ्गपद्माढ्या शरचापमहानला
पदातिमत्स्यकलुषा गजशीर्षककच्छपा
गोमायुघृकसङ्घुष्टा मांसमज्जास्थिवालुका
प्रावर्तत नदी घोरा पिशाचगणसेविता
अपारामनिवारां च रक्तोदां सर्वतो वृताम्
अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम्
तस्याददानस्य शरान्सन्दधाय च विमुञ्चतः
विकर्षतश्च गाण्डीवं न किञ्चिद्ददृशेऽन्तरम्