कर्णः-
सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान्
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरन्दरः
वासुदेवेन सहितो यदि बीभत्सुरागतः
अहमेनं निरोत्स्यामि वेलेव वरुणालयम्
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया
छादयन्तु शराः सूर्यं पार्थस्यायुर्निरोधकाः
मम चापप्रमुक्तानां शराणां नतपर्वणाम्
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम्
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव
एकैकं चतुरः पञ्च क्वचित्षष्टिं क्वचिच्छतम्
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान्
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः
खद्योतैरिव सम्पृक्तमन्तरिक्षं विराजताम्
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया
अद्यैव पततां भूमौ विनदन्भैरवान्रवान्
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम्
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम्
स्थितं सङ्ग्रामशिरसि पार्थमेकाकिनं किमु
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च
जातस्नेहश्च युद्धस्य मयि सन्दर्शयिष्यति
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित्
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम्
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम्
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम्
तुगुलः श्रूयतां नादः षट्पदां गायतामिव
अन्तरा सम्पतद्भिस्तु गृध्रपत्रैः शिलाशितैः
शलभानामिवाकाशे छाया सम्प्रति दृश्यताम्
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव
पततां पततां घोषः पततां पततामिव
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम्
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम्
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम्
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम्
शरजालमहाज्वालमसिशक्तिगदेन्धनम्
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम्
रथादतिरथं लोके सर्वशस्त्रभृतांवरम्
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम्
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः
सम्मूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम्
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम्
समूलमपनेष्यामि हरन्पार्थशिरः शरैः
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम्
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः
जामदग्न्यान्मया लब्धं दिव्यास्त्रमृषिसत्तमात्
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम्
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया
अद्यैव पततां भूमौ विनदन्भैरवान्रवान्
कामं गच्छन्तु कुरवो गाः प्रगृह्य परन्तपाः
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम्