वैशम्पायनः-
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम्
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा
मनसा चिन्तयामास प्रसादं पावकस्य च
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत्
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम्
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः
बद्धासिः सतलत्राणः प्रगृहीतशरासनः
ततः प्रायादुदीचीं स कपिप्रवरकेतनः
सैन्याभ्याशं स सम्प्राप्य गृहीत्वा शङ्खमुत्तमम्
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिन्दमः
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम्
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम्
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिन्दमः ]
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत्
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च
वानरस्य निनादेन रथनेमिस्वनेन च
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ
उत्तरश्चापि सन्त्रस्थो रथोपस्थ उपाविशत्
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परन्तपः
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम्
उत्तरं सम्परिष्वज्य समाश्वासयदर्जुनः
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः
स त्वं कथमिवानेन शङ्खशब्देन भीषितः
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा
उत्तरः-
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम्
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित्
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च
अमानुषाणां शब्देन भूतानां निस्वनेन च
रथनेमिप्रणादेन मनो मे मुह्यते भृशम्
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ
वैशम्पायनः-
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः
स मूढचेता वैराटिरर्जुनं समुदैक्षत
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत्
स्थिरो भव महाबाहो सञ्ज्ञां चात्मानमानय
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान्
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्
तं समाश्वासयामास पुनरेव धनञ्जयः
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च
गाण्डीवस्य च शब्देन पृथिवी समकम्पत
वैशम्पायन उवाच
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः
राजानं चाह सम्प्रेक्ष्य दुर्योधनमरिन्दमः
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः
औत्पातिकमिदं राजन्निमित्तं भवतीह नः
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम्
गोमायुरेष सैन्यानां रुदन्मध्येन धावति
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम्
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः
न च सूर्यः प्रतपति महद्वेदयते भयम्
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः
वादित्रोद्घुष्टघोषाश्च न च गाढं स्वनन्ति च
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम्
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात्
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम्
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान्
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात्
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम्
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुनम्