वैशम्पायनः-
एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम्
सुवर्णरुचिराण्येषामायुधानि महात्मनाम्
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम्
क्वनु ते पाण्डवाश्शूरास्सङ्ग्रामेष्वपराजिताः
येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च
कस्मिन्वसन्ति ते देशे धर्मज्ञा बन्धुवत्सलाः
क्व धर्मराजः कौरव्यो धर्मपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चैव सर्वे ते मम मातुलाः
नकुलस्सहदेवो वा सर्वास्त्रकुशलौ रणे
सर्व एव महावीरास्सर्वामित्रविनाशनाः
राज्यमक्षैः पराजित्य नश्श्रूयन्ते वनं गताः
द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति विश्रुता
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने
उत्सृज्य राज्यं धर्म्यं ते नश्श्रूयन्ते वनं गताः
पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः
क्व चाद्य निवसन्त्येते सत्यं ब्रूहि बृहन्नले
वैशम्पायनः-
ततः प्रहस्य बीभत्सुः कौन्तेयश्श्वेतवाहनः
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः
अर्जुनः-
अहमस्म्यर्जुनो नाम्ना कङ्को नाम युधिष्ठिरः
भीमसेनस्तु वललः पितुस्ते परिचारकः
अश्वबन्धस्तु नकुलस्सहदेवस्तु गोपतिः
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः
भीमसेनेन दुर्वृत्तस्सहभ्रातृभिराहवे
उत्तरः-
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च
ब्रूहि त्वं यदि जानीषे श्रद्दधेयं वचस्तव
अर्जुनः-
अहं तर्हि तवाचक्षे दश नामानि यानि मे
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः
बीभत्सुर्विजयः पार्थस्सव्यसाची धनञ्जयः
एतानि मम नामानि स्थापितानि सुरोत्तमैः
उत्तरः-
गुणतो दश नामानि समवेतानि पाण्डवे
चरन्ति लोके ख्यातानि विदितानि ममानघ
केनासि विजयो नाम केनासि श्वेतवाहनः
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च
अर्जुनः फल्गुनः पार्थः किरीटी श्वेतवाहनः
धनञ्जयश्च केनासि शीघ्रं ब्रूहि बृहन्नले
श्रुता मे तस्य वीरस्य केवला नामहेतवः
अर्जुनः-
सर्वाञ्जनपदाञ्जित्वा धनान्याच्छिद्य सर्वशः
मध्ये धनस्य तिष्ठन्तं तेनाहुर्मां धनञ्जयम्
अभिप्रयामि सङ्ग्रामे यदाऽहं युद्धदुर्मदान्
अजित्वा न निवर्तेयं तेन मां विजयं विदुः
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः
किरीटं सूर्यसङ्काशं भ्राजते मे शिरोगतम्
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम्
अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम्
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम्
न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे
भुजौ मे भवतस्सङ्ख्ये परसैन्यविनाशनौ
तयोस्सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः
शुद्धत्वाद्रूपवत्त्वाच्च तेन मामार्जुनं विदुः
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः
यो ममाङ्गे व्रणं कुर्याद्भ्रातुर्ज्येष्ठस्य पश्यतः
युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन
पराभवमहं तस्य कुले कुर्यां न संशयः
योत्स्यामि यैरहं घोरैर्न मे तेभ्यः पराभवः
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः
माता मम पृथा नाम तेन मां पार्थमब्रुवन्
देवदानवगन्धर्वपिशाचोरगराक्षसान्
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम्
हुताशनं तर्पयित्वा सहितश्शार्ङ्गधन्वना
त्रिविष्टपगतौ दृष्ट्वा पितामहमहेश्वरौ
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ
दृष्ट्वा तौ वरदौ देवौ सञ्ज्ञां लब्ध्वोत्थितः पुनः
मूर्ध्नाऽभिप्रणतं भूमौ तौ तदा वरदौ वरौ
कृष्णेत्येकादशं नाम प्रीत्या मे तत्र चक्रतुः
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ
सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव
ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम्
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम्
ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान्
मातलिं सारथिं कृत्वा निवातकवचान्रणे
अवध्यकवचान्देवैर्वरदत्तान्महासुरान्
तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम्
एको निर्जित्य सङ्ग्रामे भूयो देवानतोषयम्
ततो मे भगवानिन्द्रः किरीटमददात्स्वयम्
देवाश्च शङ्खमददुश्शत्रुसैन्यनिवारणम्
अहं पारे समुद्रस्य हिरण्यपुरवासिनाम्
हत्वा षष्टिं सहस्राणि जयं सम्प्राप्तवानपि
असम्भ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च
शत्रुमध्ये दुराधर्षो न च मुह्ये कथञ्चन
अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम्
भ्रातृभिस्सहितं तात गन्धर्वैस्समरे जितम्
चतुर्दश सहस्राणि हत्वा चैनममोचयम्
अद्य पश्य महाबाहो मम वीर्यं सुदुस्सहम्
मा भैषीर्गतसन्त्रासः कुरूनेतान्समागतान्
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च
पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम्
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून्