अर्जुनः-
यत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम्
पार्थस्यैतद्धनुर्दिव्यं गाण्डीवमिति विश्रुतम्
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम्
सर्वायुधमहामात्रं शातकुम्भमयं धनुः
एतच्छतसहस्रेण सम्मितं राष्ट्रवर्धनम्
देवदानवगन्धर्वैः पूजितं शाश्वतीस्समाः
येन देवासुरान्पार्थस्सर्वान्विषहते रणे
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्
तदनन्तरमेवैतत्प्रजापतिरधारयत्
प्रजापतिश्चतुष्षष्टिं शक्रोऽशीतिं च पञ्च च
सोमः पञ्चसहस्राणि तथैव वरुणश्शतम्
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम्
अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम्
पार्थः पञ्च च षष्टिं च कौन्तेयो धारयिष्यति
एवंवीर्यं महावेगमेतच्च धनुरुत्तमम्
नीलोत्पलनिभं राज्ञः कौरव्यस्य महात्मनः
बिन्दवश्चास्य सौवर्णाः पृष्ठे साधु नियोजिताः
मिश्रकं भीमसेनस्य जातरूपग्रहं दृढम्
सहस्रगोधास्सौवर्णा द्वीपिनश्च चतुर्दश
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः
येन भीमो दिशं प्राचीमजैषीच्च परन्तपः
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम्
तालप्रमाणं भीमस्य मणिरुक्मविभूषितम्
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम्
बर्हिणश्चात्र सौवर्णाश्शतचन्द्रार्कभूषणाः
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः
एतेन सदृशं चित्रं धनुरेतद्यवीयसः
हारिद्रवर्णं राज्ञश्च कौरव्यस्य महात्मनः
विपाठा भीमसेनस्य गिरीणामपि दारणाः
सुप्रभास्सुमहाकायास्तीक्ष्णाग्रास्सुकृता दृढाः
भीमेन प्रहिता ह्येते वारणानां निवारणाः
सुवर्णदण्डरुचिराः कालदण्डोपमाश्शुभाः
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः
यांस्तु त्वं पृच्छसे दीप्तान्समधारान्समाहितान्
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंसितः
पार्थस्यास्त्रमिदं दिव्यं सर्वभारसहं महत्
यस्त्वयं निर्मलः खड्गो द्वीपिचर्मणि दंसितः
राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः
वैयाघ्रकोशो भीमस्य पञ्चशार्दूललक्षणः
वारणानां सुदृप्तानां शिक्षितस्स्कन्धशातने
नीलोत्पलसवर्णाभः खड्गः पार्थस्य निर्मलः
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारस्समाहितः
दर्शनीयस्सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः
यस्त्वयं पार्षते कोशे प्रक्षिप्तो रुचिरत्सरुः
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः
यस्त्वयं पिङ्गलः खड्गश्चित्रो मणिमयत्सरुः
सहदेवस्य खड्गोऽयं भारसाहोऽतिदंसितः
भीमस्यायं महादण्डस्सर्वामित्रविनाशनः
वैशम्पायनः-
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान्