उत्तरः-
सारथे किमिदं दिव्यं नागो वा यदि वा धनुः
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च
बिन्दवश्चात्र सौवर्णा मणिप्रोतास्समन्ततः
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः
पुष्पाण्यत्र सुवर्णस्य शतपत्राणि भागशः
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम्
नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम्
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः
तालप्रमाणं कस्येदं मणिरुक्मविभूषितम्
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश
दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम्
कस्येदमीदृशं चित्रं धनुस्सर्वे च दंसिताः
चन्द्रार्कविमलाभासस्सुरूपास्सुप्रदर्शनाः
हंसाः पृष्ठाश्रिता यस्य कुशाग्निप्रतिमार्चिषः
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः
भूषितं काञ्चनवपुर्भाति विद्युद्गणोपमम्
नीलोपलिप्तमच्छिद्रं जातरूपमयं धनुः
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति भासिताः
शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम्
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश
बर्हिणश्चात्र सौवर्णाश्शतचन्द्रविभूषिताः
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः
कस्येमे क्षुरनाराचास्सहस्रं लोमवापिनः
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये
हारिद्रवर्णाः कस्येमे शिताः पञ्चशतं शराः
आशीविषसमस्पर्शा गतौ चाजिह्यगा दृढाः
विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराश्शराः
वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः
कस्यायं सायको दीर्घो दिव्ये कोशे च दर्शितः
कस्य दण्डो दृढश्श्लक्ष्णो रुचिरोऽयं प्रकाशते
वैयाघ्रकोशः कस्यायं दिव्यः खड्गो महाप्रभः
कस्यायमसिरावापे सिंहशार्दूललक्षणः
कस्यायं निर्मलः खड्गो द्वीपिचर्मनिवासितः
नीलोत्पलसवर्णोऽयं कस्य खड्गः पृथुर्महान्
मृगेन्द्रचर्मावसितस्सूक्ष्मधारः सुनिर्मलः
ऋषभाजिनकोशस्तु कस्य खड्गो महानयम्
यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः
कस्यायं निर्मलः खड्गश्शृङ्गत्सरुमनोहरः
निहितः पार्षते कोशे तैलधौतस्समाहितः
प्रमाणवर्णयुक्तश्च कस्य खड्गो महानयम्
नैतेन प्रतिविद्धस्सञ्जीवेत्कश्चिन्न कुञ्जरः
निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्